Book Title: Nyayamanjari Part 01
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 736
________________ द्विकम् ४] उपनिषदा सिबपरत्वसमर्थनम् To1 तस्मात् अपहतपाप्मादिगुणयुक्तात्मस्वरूपनिष्ठत्वमेव तत्रावतिष्ठते । तस्मिन्नवगते *पुरुषान्तरमार्थनादैन्यानुपपत्तः स एव घुत्तमः पुरुषार्थः। स च सिद्ध एव, न साध्यः। यत्नस्तु कतबुद्धीनां अविद्योपरमायैवेति व्याचक्षते ॥ [भारमशानस्याविधेयस्वम्] _ शातव्यः' इति प्रतिपत्तिकर्तव्यतापरोऽयं विधिरिति चेत्-नप्रतिपत्तेः प्रमितित्वात् । प्रमितेश्च प्रमेयनिष्ठत्वात्। 'सातव्यः' 'इति च कर्मणि' कृत्यप्रत्यय निर्देशात् । कर्मणश्च ईप्सिततमत्वात् तत्परत्वमेवावगम्यते। विधिस्तत्र प्रसरन्नपि क प्रसरेत् ? फलं तावत् विधेःन विषय एव । यथाऽऽइ भट्टः (श्लो. वा. 1-1-२-२२२)'फलांशे भावनायाश्च प्रत्ययो न विधायकः' इति । उपायस्तु ज्ञानमेव । शानं च शेयनिष्ठमित्युक्तम् ॥ [नात्मज्ञानाङ्गोपदेशोऽपि प्रतिबन्धकनिवृत्तिपर्यवसाय्येव] यस्तु यमनियमादिप्रतिपत्तीतिकर्तव्यताप्रकारोपदेशः, सोऽपि * पुरुषान्तरं-इन्द्राग्न्यादि। भारमविद्विपये हि ‘स वेद प्रम। , सर्वेऽस्मै देवा बलिमावहन्ति' (ते.अ. १-५) इति श्रूयते ॥ प्रमेयनिष्ठत्वात् -प्रमेयाधीनत्वात् , पुरुषानधीनत्वादिति यावत् ।। तत्परत्वं-नामपरत्वम् । भारमा स्वस्वीप्सिततमः ॥ . शेयनिष्ठमिति । तथा चेदं वाक्यं न कार्यपरमिति सिद्धम् ॥ ॥ यमेत्यादि। यदि न किचिद्विधेय, तर्हि-'शान्तो दान्तः' (बृ. ४-४-२३) इत्यादिना उपासनाविधानं, ‘यमनियमासनप्राणायाम' (यो.सू. २-२९) इत्याद्यङ्गोपदेशमा किमर्थ: ? किमुदिश्यैतानि विधीयन्ते ? इति चेत् , प्रतिबन्धकनिवृत्त्यर्थमेवेत्यर्थः । 1 इति कर्मणि च-ख. प्रसरन्-ख.

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810