Book Title: Nyayamanjari Part 01
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 732
________________ लोकेऽपि शब्दानां कार्यपरत्वानियमः 697 गर्भिणी' इति सुखदुःखकारिणां अनुपदिष्टप्रवृत्तिनिवृत्तिकानां अनाख्यातानामपि वाक्यानां लोके प्राचुर्येण प्रयुज्यमानत्वात् ॥ [प्रमाणतन्त्रस्य छानसुखादे विषिसंभवः] ___ अथ 'सुखी भव', 'दुःखी भव' इति तत्र कार्यपरत्वं व्याख्यायते तदपिन युक्तम्-ईशानामक्षराणामश्रवणात् ; कल्पनायाच निष्फलत्वात्। न हि 'सुखी भव' इत्युपदेशात् असो सुखी भवति ; सुखीभवितुं वा क्वचित् प्रवर्तते । * उपाये पूर्वमेव प्रवृत्तत्वात् । । उपेये च प्रवृत्त्यनुपपत्तेः। किन्तु पुत्रजन्मश्रवणत एवासी सुखीभवति ॥ _____तथा कस्यचित् उत्तरीयावगुण्ठिततनोः निद्रायमाणस्य क्वचित् केनचित् केलिना रजुवेष्टितवपुषः, पश्चात्प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केनचित्प्रयुज्यमानं 'रज्वा वेष्टितोऽसि' इति वचः श्रवणपथमवतरति, तत् सिद्धार्थबोधकमपि प्रमाणम्। न च तत्र ‘मा भैषीः' इति प्रयोगकल्पनायाः प्रयोजनम् ; रजुवेष्टनप्रत्ययादेव भयनिवृत्तेः सिद्धत्वात् ॥ तथा च विषमविषधराधिष्ठितोऽयमध्वा', 'निधियुक्तोऽयं भूभागः' इति भूतार्थस्यापकं वचो दृश्यते ; न च तदप्रमाणम् । नच तत्र ‘मा गाः स्वमनेनाध्वना', 'निधि गृहाण' इति विधिनिषेध• परत्वं युक्तम् , एषां पदानामश्रवणात् ॥ . सर्वत्र कार्यपदाध्याहारः नापेक्षितः] ननु! वक्तुः प्रेक्षापूर्वकारितया निष्प्रयोजनवचनानुचारात् अवश्यं 'मा गाः', 'गृहाण' इति कार्याक्षराणि हृदये परिस्फरन्ति । कथञ्चिदालस्यादिना नोरितानीति--नैतद्युक्तम्--प्रेक्षापूर्वकारि * उपाय:-सुखदुःखहेतुवाक्यश्रवणम् ॥ + उपेयं-फलं सुख दुःखं वा। नैतत् विधेयम्, पुरुषानधीनस्वात्॥ प्रेक्षापूर्वकारित्वादेवेति । कदा कार्यपदं प्रयुक्कं चेत् सफलं भवेत् ? कदा प्रयोगाप्रयोगयोरविशेषः । इत्यादिज्ञानवस्वादेव ताशस्थले न कार्यपवं प्रयुक्त इत्यर्थः। म चाम्तत: तन्त्र 'सन्ति' इति वा क्रियापदमभ्या

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810