Book Title: Nyayamanjari Part 01
Author(s): K S Vardacharya
Publisher: Oriental Research Institute

Previous | Next

Page 731
________________ 696 सिजे व्युत्पत्तिसमर्धनम् সিং । पौरुषेयवचसः विवक्षायां तात्पर्यशक्तिरपि प्रभवति । न हि सर्वास्मनाऽमिधात्रीं शक्तिमवधीयैव तात्पर्यशक्तिः प्रसरति 'इति न' विवक्षापरत्वम् ॥ [अनुमानादेव वक्तृतात्पर्यनिश्चयः] कथं तर्हि पुरुषववनादुञ्चारितात् विवक्षावगम इति चेत् , अनुमानादिति ब्रूमः। कार्यत्वात् पदरचनायाः पुरुषेच्छापूर्वकत्वमनुमीयते। अर्थावगमपुरस्सरं च पुरुषवचनात् विवक्षानुमानं-- 'एवमयं वेद', 'पघमयं विवक्षति' इति। अर्थोपरागरहितस्य विवक्षा मात्रस्य *जीवतां 'निसर्गत एव सिद्धः। 'अय'मर्थोऽस्य' विवक्षितः' इत्यर्थोपरज्यमाना तु विवक्षा 'न शक्या अर्थेऽनवगतेऽवगन्तुम । अर्थश्चेत् प्रथममवगतो वाक्यात् , न तर्हि सत् । विवक्षापरम् , अर्थपरमेव भवितुमर्हति । लोकवाक्यानां विवक्षापरत्वे चाहोऽर्थे + सम्बन्धग्रहणासंभवात् वेदादपि वाक्यार्थावगमो न स्यादित्यलं प्रसङ्गेन । तस्मान्न कार्यपरत्वेनैव शब्दस्य प्रामाण्यम् ॥ .. [कार्यान्वयरहितवाक्यानामप्यस्ति प्रामाण्यम् ] यत्पुनरभाणि---नाख्यातशून्यं वाक्यं प्रयोगाहम् । तेन घिना नैराकाट्यानुपपत्तेः। आख्यातस्य च भव्यरूपः अर्थः, न नाम्न इव भूतः। भूतभव्यसमुच्चारणे च भूतं भव्यायोपदिश्यत इति सर्वत्र कार्यपरत्वमिति-तदपि न सांप्रतम्-'पुत्रस्ते जातः", 'कन्या ते वाक्यैबाध्यत इति कथमिति चेत्-न हि तत्र पदैरर्थप्रतीतिरेव न भवति । पदसंघातरूपातु वाक्यात् तावानेव हि बोध्येत । विवक्षाज्ञानं तु पाणिकमेवानुमानादिति समनन्तरमेव वक्ष्यते ॥ *जीवतां-चेतनानामिति यावत् । शब्दे श्रुते सति 'अयं किञ्चिद्विवक्षति' इति सामान्यत एव विवक्षाऽनुमातुं शक्या, न तु अर्थोपरागेण । अर्थस्य शाब्दबोधाधीनत्वेन, तत्पूर्व अर्थोपरागासंभवादित्यर्थः ॥ लोकतोऽवगतपदपदार्थव्युत्पत्तिकाः खलु वेदादप्यर्थं प्रतिपद्येयुः ॥ इति--क. मात्र-क. निसर्ग-क. “मों-स्त्र. न-क.

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810