Book Title: Nandanvan Kalpataru 2017 11 SrNo 39 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः अष्टात्रिंशी शाखा पठिता । प्रास्ताविके भाषा प्रतिवाक्यं हंससञ्चारं चरति । तत्र च राष्ट्रीयं चारित्र्यम् अधिकृत्य यदुक्तं तत्तु चिन्तोद्दीपकम् एव । मुनिरम्याङ्गरत्नविजयानां "जीवनमौक्तिकात्" धर्मलाभः अभवत् । किन्तु "आर्यसत्यानां पर्यालोचनम्" पण्डितोचितत्वात् कठिनमिव अनुभूतम् । मुनिधर्मकीर्तिविजयानां पत्रं पाठं पाठम् अन्तिमभागस्य "सम्मीलने नयनयोर्न हि किञ्चिदस्ति" इति पङ्क्तिर्यदा प्राप्ता तदाऽहमपि चकितः अभवं राजसमानम् । संस्कृतवाणीसेवारतेन डा० विश्वासेन "अर्धजरती" इति कथासङ्ग्रहः रचितः, संस्कृतभारत्या प्रकाशितश्चेत्येषः विषयः मया सर्वप्रथम नन्दनवनकल्पतरुपत्रिकातः एव ज्ञातः । शाखायाम् अन्याः कथाः कविताः च अत्यन्तं रुचिराः । मर्म गभीरं, हास्यरचनाः च उत्तमाः । संस्कृतानुवादयुक्तम् आचार्याणां प्राकृतकाव्यम् आस्वादनीयं चासीत् । इति भवदीयः विनीतविधेयः एम्. ए. रवीन्द्रन् M. A. Ravindran Palghat-678012 (Kerala)Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 96