Book Title: Na Cha Ratnamalika Author(s): Sastra Sharma, Surati Narayanmani Tripathi Publisher: Varanaseya Sanskrit Vishvavidyalay View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org.. Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकम् ___ संस्कृतं भारतस्य चिरन्तनधारणानुसारेण सृष्टेः सर्वप्रथमा भाषा, यां जगत्पिता परमेश्वरो नियोज्यनियोजकविग्रही परिगृह्य सर्गस्यादिमान् मानवानुपादिशत् । नव्यन्यायभाषा च तस्याः प्रौढः परिपूर्णश्च विकासो यो गङ्गेशप्रमुखैायविद्याऽभिवृद्धः समग्रप्रमेयप्राणप्रतिष्ठानां प्रमाणानां स्वरूपनिरूपणे प्रायोजि । प्रमाणानि च न्यायनये चत्वारि । यथाऽह महर्षिोतमो न्यायदर्शने 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति । तत्रापामरप्रसिद्धप्रमाणभावतया स्वेतरसर्वप्रमाणोपजीव्यतयाऽन्याखिलप्रमाणतोऽधिकतरविसम्भकरतया च प्रत्यक्षस्य प्रथममुल्लेखेऽपि तस्य तदन्येषां च समेषां प्रमाणानां प्रामाण्यसिद्धरनुमानेकतन्त्रतयाऽनुमानस्य सर्वप्रमाणतो वैशिष्ट्यं वारिष्ठ्यं च नितान्तं निर्विवादम् । अत एव निखिलैरेव नैयायिकैरनुमानस्य व्युत्पादने प्रामाण्यप्रतिष्ठापने च निरन्तरं पर्यश्रमि। तच्चानुमानं साध्यव्याप्यतया जायमानो हेतुः, व्याप्तिविशिष्टपक्षधर्मतया परामृश्यमानो हेतुः, हेतौ साध्यव्याप्तिज्ञानम् , पक्षे साध्यव्याप्यतया हेतुमत्ताज्ञानम् , तत्सहितं मनो वेत्यादिषु सर्वेष्वेव मतवादेषु व्याप्तेरनुमानाङ्गत्वं निश्चप्रचम् । व्याप्तिश्चान्वयतो व्यतिरेकतश्च द्विधा, तत्र व्यतिरेकतो व्याप्ति म साध्यव्यतिरेके हेतुव्यतिरेकनियमः, हेतौ साध्याभावव्यापकीभूताभावप्रतियोगित्वपर्यवसितः । अन्वयतो व्याप्तिश्च हेतौ साध्यसहचारनियमः, साध्याभावबदवृत्तित्वसाध्यवदन्यावृत्तित्वहेतुव्यापकमाध्यसामानाधिकरण्यादिरूपेण बहुप्रकारं विततः । तत्र तत्साध्यकतद्धतुकानुमितौ तद्धतौ तत्साध्यव्याप्तरेव प्रयोजकत्वौचित्येन साध्यव्यतिरेके हेतुव्यतिरेकव्याप्तेः साध्यानुमितावनङ्गत्वस्यैव न्याय्यतयाऽन्वयव्याप्तरेवानुमित्यौपयिकत्वाभ्युपगमो मान्यः । तत्प्रकारेष्वपि व्यापकत्वगर्भप्रकारस्य तदम्युपगतेौरवग्रस्ततया साध्याभाववदवृत्तित्वात्मनोऽन्वयन्याप्तिप्रकारल्यैवानुमितिप्रयोजकत्वं समुचितम् । तथात्वे परं केवलान्वयिसाध्यकस्थले साध्याभावस्याप्रसिद्धतया केवलान्वयिसाध्यकानुमितेरुच्छेदो दुष्परिहर आपद्यते । अतः सोन्दडप्रभृतिभिस्तार्किकधुरन्धरैः घटवत्स्वपि देशेषु पटत्वेन घटो नास्तीति सार्वजनीनप्रतीतिपारमार्थ्यमनुसन्दधानरमावीयप्रतियोगिताया व्यधिकरणधर्मावच्छिन्नत्वं स्वीकृत्य साध्याभावगर्भव्याप्तीनां केवलान्वयिसाध्यकस्थलसाधारण्यसम्पादनार्थमनेकधा यतितम् । तादृशेष्वेव तार्किकेषु प्रोद्दीप्तप्रतिभाप्रभापुञ्जनान्वर्थनाम्ना तत्र भवता प्रगल्भेन साध्यतावच्छेदकविशिष्टसाध्यसामानाधिकरण्यावच्छेदकस्वसमानाधिकरणसाध्याभावत्वकत्वम् , यत्समानाधिकरणसाध्याभावप्रमायां साध्यवत्ताज्ञानप्रतिबन्धकत्वं नास्ति तत्वम् , साध्याभाववति यवृत्तौ प्रकृतानुमितिविरोधित्वं नास्ति तत्त्वं वेति व्याप्तेर्लक्षणत्रयं प्राणायि । प्रकृतः 'न च रत्नमालिका ग्रन्थस्तेषु मध्यमं लक्षणमाश्रित्य केरले कोटिलिङ्गपुरप्रसाधनविदग्धस्य महामहोपाध्यायभट्टश्रीगोदवर्यराजस्यान्तेवसता न्यायविद्याविख्यातविपश्चिता श्रीशास्तृशर्मणा पाण्डित्यप्रकर्षनिकष इव निरमायि । ग्रन्थोऽयमनेकेषां नवनवकल्पनाप्रसवपाटयोपजुष्टप्रज्ञासाक्षिणां तर्कशास्त्रीयविशिष्टविचाराणामाकरत या विद्वजनानां महते मनस्तोषाय कल्पत इति निस्संशयम् । सोऽयं ग्रन्थो ग्रन्थकारस्यैव शिष्यैः सोत्साहं प्रसाधितया 'आलोकप्रकाश टिप्पण्योपहितेन तस्यैव For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 215