Book Title: Merutrayodashi Katha Author(s): Labdhivijay Publisher: Jain Atmanand Sabha View full book textPage 5
________________ Scanned by CamScanner मलयनामास्ति तत्र ब्रह्मपुरं पुरम् ॥ २६ ॥ तत्र काश्यपगोत्रीयो राजा शतरथोऽभवत् । इन्दुमत्यभवत्तस्य पट्टराझी मनोहरा २॥ २७ ॥ तत्कुक्षिसंभवा नाम्नातिगुणा गुणसुन्दरी । जातातिशयलावण्या सौभाग्यस्य निकेतनम् ॥ २८ ॥ पित्रोरतिप्रिया सा यदन्यसूनोरभावतः । वरयोग्यां पिता दृष्ट्वा विवाहचिन्तनं व्यधात् ।। २९॥ अयोग्या मिलिताः सर्वे बराश्चिन्तां तदाकरोत किं कर्तव्यं मया हाहा ! पुत्रिकायाः कृतेधुना ॥३०॥ तदा नगरवास्तव्याः शकटानि क्रयाणकैः । भृत्वा व्यापारिणश्चेलु नादेशान्तरं प्रति ॥ ३१ ॥ राजा बमाण लोकान्वो यदि योग्यो वरो मिलेत् । सम्बन्धस्तु तदा कार्यस्तयेति प्रतिपेदिरे | ॥ ३२ ॥ भ्रमद्भिस्तैस्तु संमापेऽयोध्या नाम्ना महापुरी । क्रयाणकानि विक्रीय महद् द्रव्यमजीजनत् ॥ ३३ ॥ तत्रत्यान्यन्यB वस्तूनि लात्वा गमनतत्पराः। जाता यदा स्मृतं राज्ञः सम्मान्यं वचनं तदा ॥ ३४ ॥ किंवदन्त्या श्रुतो यत्तै राजपुत्रोऽति। रूपभाक् । अत्रत्योऽस्तीति दातव्या तदस्मै गुणसुन्दरी ॥ ३५ ॥ वितन्येति विचारन्ते ययू राजसमान्तरम् । ददुः पिङ्गलरा याय स्वस्वामिशुभपुत्रिकाम् ॥ ३६॥ शुल्कादिकं विमुच्याथ राज्ञा सत्कारिता अति । ततस्ते हर्षिताः सन्तश्चेलुः स्वनगरं प्रति ॥ ३७॥ वह्मपुरनरेन्द्रस्य पुरः पथिरे गुणान् । तस्य पिङ्गलरायस्य यथा श्रुत्वा जहर्ष सः ॥ ३८ ॥ विवाहाही स । दृष्ट्वा तां प्रेषयामास याञ्जनान् । कुमाराकरणाय स्वान् प्राप्ताऽयोध्यापुरी च तैः ॥ ३९ ॥ प्रोचुरनन्तवीर्यन्ते विवाहसमयोs। धुना । प्रेषयतु भवान् पुत्रं तदर्य वयमागताः॥४०॥ श्रुत्वेत्युद्विग्नचित्तः सन् ययावन्तःपुरं नृपः। रानीप्रधानयोरने पृष्ट वान् क्रियते किम् ॥४१॥ पङ्गुनों वर्तते पुतः मेष्यते स कयं बहिः । कन्यां प्रदास्यते को वा पनवे गुणशालिनीम् ॥४२॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20