Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Scanned by CamScanner
॥८॥
०००००००००००००००००................
अथ संसारभावनाध्रुवं धिक्कारयोग्योऽयं संसारो दुःखदायकः । यस्मिन्मृत्वा वरा देवा प्रयांत्येकेन्द्रियादिषु ॥१०५॥ कदायं नृपतिर्भूत्वा भुते भोगाननेकशः। कदा रङ्को भवेद्योऽपि शटितानं लभेत न ॥१०६॥ कदा रोगी कदा भोगी कदा योगी तयैव च । कदाचिच्छोकयुक्तः स्यात् तेन मुक्तः कदा भवेद् ॥ १०७॥ यो नृपो वाहनहींनश्चलितुं क्षमते नहि । स एव रासभीभूयातिभारं वहते सदा ॥१०८॥ यत्र माता भवेत्पत्नी पत्नी माता तथैव च । पुत्रः पिता पिता पुत्रो धिगिदं भक्नाटकम् । ॥१.९॥ संसारनाटके जीवा नृत्यन्ति विविधैर्भवैः । वेषैस्तथा इहा रङ्गमण्डपे नर्तका यथा ॥११०॥पापिनः पापयोगेन पच्यन्ते नारकाग्निषु । छिद्यन्ते च विभिद्यन्ते खिद्यन्ते च पुनः पुनः॥१११॥ मायाविनोपि मृत्वात्र जायन्ते पशवो भुवि । वाह्यन्ते निर्दयैर्लोकारयित्वा पुनः पुनः ।।११२॥ सहन्ते क्षुत्पिपासादीन्यन्यकष्टान्यनेकशः। तिर्यग्योनौ गता जीवा वर्णयितुं न शक्यते ॥ ११३ ।। मयोप्यसंख्यकष्टानि मर्त्ययोनौ निरन्तरम् । लभते रोगशोकादि जन्ममृत्युजरादिभिः॥११४ ।। देवा । देवीवियोगेन महर्द्धिदेवदर्शनात् । प्रत्याख्यानाधभावाच्च क्लिश्यन्ते प्रत्यहं हहो। ॥११५॥
अथ एकत्वभावना- यथा गतोऽत्रैकक एव जीवस्तथैकको गच्छति पारगत्यम् । कृतं यथा कर्म तथैककेन वै मुज्यतेऽन्यो न सहायक: स्यात् ॥११६॥ कटीसूत्रविहीनोऽयं यथायातस्तथैव च । गमिष्यति न संदेहो मोहं मुञ्चसि किं नहि ॥११७॥ ययैक
.....

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20