Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 13
________________ Scanned by CamScanner .......... स्यादयोगी केवली सदा । तदन्येषां सुदृष्टीनां संवरो देशतो भवेत् ॥ १४२ ॥ मिथ्यात्वाव्रतमुख्याणामाश्रवाणा प्रयत्नतः। निरोधाय च कर्त्तव्या उपायास्तद्विरोधिनः ॥१४३ ॥ इमा यो भावनां चित्ते स्मरत्यहोनिशं नरः। स स्वर्गफलमासाद्य शटिति मोक्षगो भवेत् ॥ १४४ ॥ अथ निर्जराभावनाभवभ्रमणकारिण्या अभावः कर्मसन्ततेः । निर्जरा कथ्यते लोके सकामा कामभेदतः ॥ १४५॥ व्रतस्येषु सकामा । स्याद कमा शेषजन्तुषु । कर्मणामाम्रवत्पाकः स्वतः स्यादन्यतः कचित् ॥ १४६ ।। छेदाढ़ेदालमेरन् यत्कष्टमेकेन्द्रियादयः । तस्माद्यत्कर्मणां शाटः साकामनिर्जरा मता ॥ १४७ ॥ स्ववशो ज्ञानभावेन शुभध्यान-तपो-जपैः । यो भवेत्कर्मणां शाटः सा सकामोच्यते बुधैः॥१४८॥ सकामां सुखदा लोका! विधत्त निर्जरां सदा । येन संसारदुःखेभ्यो यूयं मुक्ता भविष्यथ ॥१४९॥ अथ लोकभावनाउर्ध्वतिर्यगधोभेदै लॊकत्रिविध उच्यते । विशेषं तत्स्वरूपन्तु विज्ञेयमन्य शास्त्रतः॥ १५०॥ ____अथ बोधिदुर्लभभावनापृथिव्यादिषु षसु स्यादनन्तं मरणं यदा । परावर्त्तनमेकं स्यात्पुद्गलानां जिनोदितम् ॥ १५१ ॥ दुर्लभस्तदनन्तैईि

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20