Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 16
________________ Scanned by CamScanner भवत्तनौ । हस्तपादैविहीनः स तेन जातः स्वयंप्रभः ॥ १८३ ॥ एक एवाभवत्पुत्रः पित्रोः कष्टं ततो महत् । अनेकोपायमाकाष्टी पितरौ दुःखितावपि ॥ १८४ ॥ अष्टवर्षाणि यावन तस्य रोगो ननाश सः । तावदेको महान्सङ्क: श्रीमच्छत्रुञ्जयं पति ।। १८५ ॥ चचाल तेन सक्लेन सहैव श्रेष्ठिराट् स च । स सुतभार्यको गतवान् धर्मप्रेमपरायणः ।। १८६ ॥ (युग्मम् ) गिरिराजोपरिं गत्वा सूर्यकुण्डजलेन सः। स्नपयामास पुत्रं खं देवताधिष्ठितञ्जलम् ॥ १८७ ॥ परं लग्नं शरीरे न तस्यकर्मानुभा- । वतः। अन्ये सजनाः सर्वे स्नात्वा श्री ऋषभप्रभोः॥१८८।। चक्रुः पूजामनेकैर्हि द्रव्यैर्नानाप्रकारतः। पश्चात्तत्पगुवृत्तान्तः पृष्टः साधुसमीपके ॥ १८९ ॥ (त्रिभिर्विशेषकम् ) किं कारणं प्रभोरत्र स्पृष्टं पङ्को स्तनौ नहि । जलं रुग्ण इति पृष्टयाचष्ट मुनिपुगवः ॥ १९० ॥ अनेन पूर्वकाले हि देवद्रव्यं विनाशितम् । तथैकस्या हरिण्याश्च छेदिता मूलतः पदः ।।१९११॥ तत्कास्य बहुक्षीणमवशिष्टं किञ्चिदेव हि । वर्त्तते तेन पस्पर्श न तनावस्य तज्जलम् ॥१९२॥ एतन्मुनिवचः श्रुत्वा पिता माता च पुत्रकः। त्रयो वैराग्यमापना धर्मध्यानपरायणाः॥ १९३ ॥ श्रीमन्तमृषभं देवं वन्दित्वा स्वगृहं गताः । कुर्वन्त्यहोनिशंघर्म रोगिणो । भेषजं यथा ॥ १९४ ॥ अथ मृत्वा स पङ्गुस्तत्कालोच्य यथा विधि । सहस्रषोडशान्दायु क्वागात् प्रथमां दिवम् ॥१९५ ॥ ततश्श्युत्वात्र हे राजनयं पिङ्गलरायकः । सञ्जातस्तव पुत्रोस्तीत्युवाच गाङ्गिलो मुनिः ॥ १९६ ॥ पुनरपि मुनिधर्मदेशनापूर्वकं वचः । उवाचानेन मिथ्यात्वादेतत्कर्मकृतं हहा ! ॥ १९७ ।। तथाहि मद्यपानाधया जीवो न जानाति हिताहिते । धर्माधर्मों न जानाति तथा मिथ्यात्वमोहितः ॥१९८॥ मिथ्यात्वेना ___

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20