Page #1
--------------------------------------------------------------------------
________________
Scanned by CamScanner
OddddddddddddddddddddddddddddddONS
। न्यायांभोनिधिमीयविजयानंदमूरिपादपद्मेभ्यो नमः । जैनरत्न-व्याख्यानवाचस्पति-श्रीमल्लब्धिविजयविरचिता
मेस्त्रयोदशीकथा. इंडरनगर-वास्तव्य श्रेष्ठिवर्य-माग्वाटज्ञातीय-संघवी-मणिलाल वीरचंद्र-द्रव्यसाहाय्येन ।
आ.
Oppppppppppppa
प्रकाशयित्री-श्रीजैनआत्मानंदसभा-भावनगर.
-
-
-
इदं पुस्तक गांधी-वल्लभदास-त्रिभुवनदास सेक्रेटरी आत्मानंद सभा भावनगर-इत्यनेन प्रकाशितम् । वीरसंवत् २४२..
आत्म संवत् २०.
विक्रम संवत् १९७२. 3. आनंद मुद्रालयाधिपतिना शाह लल्लूभावात्मजेन गुलाबचंद्रेण मुद्रितम्,
TohammmmmmtecterammammnareneelaerawaimaintereAGHIMIMomrateereelammamte
DINAYAPAKAMANA
AULI
Page #2
--------------------------------------------------------------------------
________________
Scanned by CamScanner
డిండిండిలోడికోడిపడివడి
. समालोचयन्तु सद्गुणगणरंजितमानसाः असौ मेरुत्रयोदशीकथानकाभिधो ग्रन्थो महता प्रयासेन त्रिभुवननिवासिसकलभव्यकजविकासनचित्रभानवो मिथ्यात्वतमस्सान्द्रे ज्ञानचक्षुर्विरहेण बंभ्रम्यमाणानां लुम्पकमतीनामुद्धरणबद्धकक्षा न्यायांभोनिधि-श्रीमद्विजयानंदसूरीश्वरा अभूवन् । तेषां पट्टे शुदमार्गप्रवर्तका आधुनिकाविर्भूतानां कुमतगजानां विदारणकेसरिणः तपागच्छगगनाकोः यदगुणमकरंदग्रहणासिकैर्मुनिपुङ्गवैः संसेवितचरणकजा निरीहाः श्रीमद्विजयकमलसूरीश्वराः विराजन्ते । तेषां स्फाटिकवनिर्मलमानससरसि हंसीयमानैरतिपौढवक्तत्व शक्तिरंजितमानसैरीडरनिवासिश्रीचतुर्विधसंधैरत्याग्रहेण दत्तजैनरत्नव्याख्यानवाचस्पतिनामकविरुदविभूषकैर्मुनिवर्यश्रीमल्लब्धिविजयैरनेकसाधुगुणालंकृतमुनिवर्यश्रीमन्मानविजयानां प्रेरणया सकलभव्यजनोपकाराय च पूर्व गद्यरूपेण संक्षिप्ततया तर्कफक्किकायशोधरचरित्र-श्रीपालचरित्रटीका-गौतमीयकाव्यटीका-अष्टाहिकव्याख्यान-चातुर्मासिकव्याख्यानादिग्रथितग्रंथमुनिवर्यश्रीमत-क्षमाकल्याणकैथितो वेविद्यते । तदाधारेण च पद्यरूपेणसाद्विशतपरिमितो सरलरीत्या संहब्धः परंतु प्रसंगोपलब्धानित्याशरणसंसारैकखान्यत्वाशुच्यश्रवसंवरनिर्जरालोकबोधिधर्मकथकाईनद्वादशभावनारूपविषयेन पूरितोऽस्त्यत एवात्युपकारको भावीति मन्ये ।
लेखक-जैनरत्नव्याख्यानवाचस्पति-मुनिवर्य श्रीमल्लब्धिविजयचरणोपासक-मुनि-गंभीरविजयः। అలలలలలలలలల లలలలల లలలలలలలలలలాల
Oakaskioskoskokanskasikasikackage
Page #3
--------------------------------------------------------------------------
________________
Scanned by CamScanner
श्रीविजयानन्दसूरिपादपत्रेभ्यो नमः। श्रीमेस्त्रयोदशीकथा.
A. नाभेयाय नमस्तस्मै विघ्ननाशकराय यम् । नत्वा निर्विघ्नकल्याणा जग्मुमुक्तिपदं जनाः॥१॥ श्रीचिन्तामणिपार्वत-| । मीडरस्थं नमाम्यहम् । यस्य दर्शनमात्रेण मोऽप्यमरतां व्रजेत् ॥ २॥ तीर्थस्यास्य प्रणेत्रे मे श्रीवीराय नमो नमः। यदाज्ञा
हृदये कृत्वा विघ्नपारङ्गतानके ॥३॥ कथा मेरुत्रयोदश्या भव्यानां सुखहेतवे । लिख्यते पद्यरूपेयं पूर्वगद्यानुसारतः ॥४॥ माघकृष्णत्रयोदश्या माहात्म्यं वर्णितं यथा । श्रीवीरैर्गौतमाग्रे तदस्माभिरपि लिख्यते ॥५॥ श्रीनाभेयाजितप्रभ्वोरन्तरे गृहिधर्मयुक् । अनन्तवीर्यराजाभूदयोध्यायां सुखाकरः ॥ ६॥ हस्त्यश्वरथपत्तीनां नायकः सुखदायकः । स्त्रीणां पञ्चशती जने तस्य रूपमनोहृताम् ।। ७॥ तासु प्रियमती नाम्ना पट्टराज्ञी बभावति । तारास्वन्तर्गतश्चन्द्रो यथाकाशे तथा गृहे ॥ ८॥ तस्य । धनञ्जयो नाम मन्त्री बुद्धिविशारदः । नीतिरीतिषु विज्ञोऽस्ति राजकार्येषु दत्तम् ॥९॥ सर्वथास्ति सुखी राजा परं सूनो
॥१॥
Page #4
--------------------------------------------------------------------------
________________
Scanned by CamScanner
२
॥
०००००००००.००
रभावतः । दु:खिनं मन्यते स स्वं सुताऽभावे कुतः सुखम् ॥१०॥ शुशोच स कथं भावी विना पुत्र प्रजागणः । मयि पर। गतिं प्राप्ते को धाताऽस्य भविष्यति?॥११॥ पश्चादचिन्तयद राजा सर्व धर्मप्रभावतः। भव्यं भवति भव्यानां तत्तं कुर्वे निरन्तरम् ॥१२॥ देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । क्रियते भक्तियुक्तेन तेन पुत्रफलेच्छया ॥१३॥ तस्मिन्नवसरे कोऽपि कोणकाहो महामुनिः । पट्टराज्ञीगृहे प्राप्तः मासुकाहारहेतवे ॥ १४ ॥ नत्वा तश्च नृपो राज्ञी पुत्रप्रश्नं प्रचक्रतुः। नाथाऽऽवयोः सुतो नास्ति भावी किं सोऽथवा नहि ? ॥१५॥ उक्तवान् स मुनिधन्यो युज्यते गुणिनां नहि । ज्योतिष्कादि निमित्तं तु वदितुं परमर्षिणाम् ।। १६ ॥ अत्यन्तं प्रार्थितः सन्सोऽभाषिष्ट मुनिपुङ्गवः । दयां कृत्वा दयालुर्वा पङ्गुः पुत्रो भकि | ष्यति ॥ १७ ॥ आहारं स गृहीत्वागाचतस्ताभ्यां विचारितम् । अपुत्रात्पुत्रकः पङ्गरपि भाव्यतिसौख्यकृत् ॥ १८॥ अत्रान्तरे गर्भविवर्द्धिताङ्गा राशी बभूवाऽऽहितधर्मरक्षा । तयाथ पूर्णे समये प्रसूतः पद्भया विहीनस्तनुजोऽतिदीनः ॥१९॥ जातहर्षेण राज्ञाऽस्य महान् जन्मोत्सवः कृतः। भोजयित्वा कुटुम्ब स्वं तद्दिनाद् द्वादशेऽहनि ॥२०॥नाम्ना पिङ्गलरायोऽस्तु स्वजनानां समक्षतः । इत्युक्त्वा कृतसत्कारान् स्वजनान् विससजें सः॥ २१ ॥ युग्मम् । पिता ररक्ष तं यत्नादन्तःपुरे हि पिङ्गलम् । लोकाः पृच्छन्ति तद्वीजंकल्पितं स तदावदत् ॥२२॥ रूपेण जितकन्दर्पः कुमारोऽस्ति महामनाः। विभेमि दृष्टिदोषागो नपादष्क्रियते ततः ॥२३॥ सर्वस्मिनगरे तेन कयनेनातिविस्तृता । किंवदन्ती कुमारायमतिरूपाशिरोमाणः ॥२४॥ क्रमेण वधे सूनू राशी नृपमनोरथैः । यथा फलपदो वृक्षो विहगानां मनोरयैः ॥ २५॥ अयोध्यातस्तदा दूरे सपादशतयोजने । देशो
Page #5
--------------------------------------------------------------------------
________________
Scanned by CamScanner
मलयनामास्ति तत्र ब्रह्मपुरं पुरम् ॥ २६ ॥ तत्र काश्यपगोत्रीयो राजा शतरथोऽभवत् । इन्दुमत्यभवत्तस्य पट्टराझी मनोहरा २॥ २७ ॥ तत्कुक्षिसंभवा नाम्नातिगुणा गुणसुन्दरी । जातातिशयलावण्या सौभाग्यस्य निकेतनम् ॥ २८ ॥ पित्रोरतिप्रिया
सा यदन्यसूनोरभावतः । वरयोग्यां पिता दृष्ट्वा विवाहचिन्तनं व्यधात् ।। २९॥ अयोग्या मिलिताः सर्वे बराश्चिन्तां तदाकरोत किं कर्तव्यं मया हाहा ! पुत्रिकायाः कृतेधुना ॥३०॥ तदा नगरवास्तव्याः शकटानि क्रयाणकैः । भृत्वा व्यापारिणश्चेलु
नादेशान्तरं प्रति ॥ ३१ ॥ राजा बमाण लोकान्वो यदि योग्यो वरो मिलेत् । सम्बन्धस्तु तदा कार्यस्तयेति प्रतिपेदिरे | ॥ ३२ ॥ भ्रमद्भिस्तैस्तु संमापेऽयोध्या नाम्ना महापुरी । क्रयाणकानि विक्रीय महद् द्रव्यमजीजनत् ॥ ३३ ॥ तत्रत्यान्यन्यB वस्तूनि लात्वा गमनतत्पराः। जाता यदा स्मृतं राज्ञः सम्मान्यं वचनं तदा ॥ ३४ ॥ किंवदन्त्या श्रुतो यत्तै राजपुत्रोऽति। रूपभाक् । अत्रत्योऽस्तीति दातव्या तदस्मै गुणसुन्दरी ॥ ३५ ॥ वितन्येति विचारन्ते ययू राजसमान्तरम् । ददुः पिङ्गलरा
याय स्वस्वामिशुभपुत्रिकाम् ॥ ३६॥ शुल्कादिकं विमुच्याथ राज्ञा सत्कारिता अति । ततस्ते हर्षिताः सन्तश्चेलुः स्वनगरं प्रति ॥ ३७॥ वह्मपुरनरेन्द्रस्य पुरः पथिरे गुणान् । तस्य पिङ्गलरायस्य यथा श्रुत्वा जहर्ष सः ॥ ३८ ॥ विवाहाही स । दृष्ट्वा तां प्रेषयामास याञ्जनान् । कुमाराकरणाय स्वान् प्राप्ताऽयोध्यापुरी च तैः ॥ ३९ ॥ प्रोचुरनन्तवीर्यन्ते विवाहसमयोs। धुना । प्रेषयतु भवान् पुत्रं तदर्य वयमागताः॥४०॥ श्रुत्वेत्युद्विग्नचित्तः सन् ययावन्तःपुरं नृपः। रानीप्रधानयोरने पृष्ट
वान् क्रियते किम् ॥४१॥ पङ्गुनों वर्तते पुतः मेष्यते स कयं बहिः । कन्यां प्रदास्यते को वा पनवे गुणशालिनीम् ॥४२॥
Page #6
--------------------------------------------------------------------------
________________
Scanned by CamScanner
॥४॥
मन्त्रयित्वा बभाणाय मन्त्री बुद्धिविशारदः। आइय सेवकाँस्तान कुमारो वर्ततेऽत्र भोः! ॥४३॥ योजनद्विशते दूरे मातुलस्य गृहेऽस्ति सः। मोहिनी (मुहनी) पत्तने तस्माबेदानीं तद्भविष्यति ॥ ४४॥ पश्चाविज्ञापयिष्यामो विवाहसमयं वयम् । श्रुत्वेति जगदुईहो! स्वामिन् ! दूरेऽस्ति तत्पुरम् ।। ४५॥ लग्नं निर्धार्य दातव्यमागन्तव्यं तथा स्वयम् । सेवकानां वचः श्रुत्वा लग्नं निर्धारितं तदा ॥ ४६॥ मासषोडशकान्तरकं लग्नं लात्वा गतास्ततः। सेवका मलयं वृत्तं नृपं सर्वमचीकयन् ॥ ४७ ॥ पश्चादनन्तवीर्योऽपि चिन्तातुरो व्यचारयत् । उपायः कोऽत्र कर्त्तव्यः कालस्य त्वरिता गतिः ॥४८॥ मन्त्री नृपस्तथा राज्ञी सचिन्ता नैव लेभिरे । उपायान् यावता तावन्मुनिपञ्चशतीयुतः ॥ ४९ ॥ चतुर्ज्ञानधरो नाम्नाऽऽजगाम गाङ्गिलो मुनिः ॥ शुद्ध बने स्थितश्चास्य नगरस्य महामनाः ॥५०॥ वनपालमुखाच्छुत्वा खतिहृष्टो नृपोऽजनि । तुष्टिदानं ततो दत्त्वा हस्त्यश्वरथपत्तियुक् ॥ ५१ ॥ महामहोत्सवेनैव मुनिपार्थमियाय सः । वन्दनं मुनये दत्त्वा यथास्थाने स तस्थिवान् ॥ ५२ ॥ (चतुर्भिः कलापकम् ) सभ्यानामुपकाराय परोपकृतिकर्मठः । मुनिर्मधुरया वाचा प्रारंभे धर्मदेशनाम् ॥ ५३ ॥ चातुर्गतिकसंसारे मानुष्यमतिदुर्लभम् । चिन्तारत्नमिव प्राप्य मूर्हा! हायेते मुधा॥५४॥ देवता विषयासक्ता नारका दुःखविहलाः । ज्ञानहीनाश्च तिर्यचो धर्म योग्या हि मानवाः॥५५॥ यस्मिअस्ति दयावास इन्द्रियदमनं तथा । सत्यवान् विद्यते तस्मिन् धर्मभावोऽस्ति शाश्वतः॥५६|| दया धम जनन्यस्ति दयाधर्मस्य पालिका | पुण्यवृद्धिकरी लोके दौकान्तसुखपदा ॥ ५७ ॥ धर्मस्य जननी हत्वा दयां यो धर्ममिच्छति । स मूर्खस्तु विना
Page #7
--------------------------------------------------------------------------
________________
Scanned by CamScanner
बीजं सस्यभावं समीहते ॥ ५० ॥ श्रीधर्मस्य दया मूलं रक्षितं सिश्चितं तथा । वर्द्धितं सुखच्छायाकृत् तथा मोक्षफलमदम् ॥ ५९॥ यस्य चित्तं दयाशून्यं प्रस्तरं तत्तु प्रोच्यते । नाशाय धर्मरत्नस्य सदैव तस्य तत्परम् ॥६०॥ दयाहीना न
शोभन्ते रात्र्यश्चन्द्रं विना यथा । घोरान्धकारमग्नास्ते दु:खिनः स्युः पदे पदे ॥ ६१ ॥ दयां कुर्वन्ति ये लोकाः प्राप्नुवन्ति । सुखानि ते । कुष्टादिरोगयुक्ताः स्युनरा हिंसाप्रभावतः ॥ ६१॥ हिंसावृक्षस्य पुष्पाणि रोगाणि तनुदाहिनी । चिन्ता छाया भ
वेत्तस्य फलन्तु श्वभ्रयातना ॥ ६३ ॥ विविधान् विषयाँस्त्यक्त्वेन्द्रियाणां दमनं कुरु । दमिते चेन्द्रिये किं भो न प्राप्तं त्वयका | भुवि ॥६४ ॥ विषये च विषे भेदो यकारेण महान् कृतः । आद्याद्भवे भवे मृत्युः परस्माज्जायते नवा ॥ ६५॥ विषयासक्त
चित्तैस्तु नरैर्यल्लभ्यते सुखम् । तदनन्तगुणं दुःखं प्राप्यते विषयैर्हि तैः ॥ ६६ ॥ धर्मामृतरसं त्यक्त्वा मूढा विषयजं रसम् ।।
विष पिबन्ति ये लोके तेषां मृत्युः पदे पदे ॥ ६७ ॥ पायोभिः सरितां स्याचेत् तृप्तिभाक् सागरस्तदा । विषयैः पाणिनस्तृप्ता 1: भवेयुर्नात्र संशयः ॥ ६८॥ अनन्तजन्मजै गैर्नायं तृप्तो भवेज्जनः । किमेकजन्मभॊगैरयं तृप्तिं गमिष्यति ॥ ६९॥ विषयार्य ।
विमुढात्मा खिद्यतेन मुहुर्मुहुः। परत्र लभते दुःखं यत्तदन्तो न विद्यते ॥ ७॥ विषयामिषलुब्धानां यातनाः स्युरनेकशः। छेदनं भेदनं वभ्रे पचनं मरणं तथा ।। ७१ ॥ त्यजन्तु विषयाँल्लोका! मुक्तिमार्गान्तरायकान् । यदीप्सा मोक्षसौख्यस्य वते हृदयेषु वः ॥७२॥ ये याता यान्ति यास्यन्ति श्रीमती पञ्चमी गतिम । ते सर्व विषयाँस्त्यत्वा भोगिनोऽधोगतिं गताः ॥ ७३ ॥ सत्यं वाच्यं वचो नित्यं शुभा येन गतिर्भवेत् । असत्यवाचिनो यान्ति वसुवनारकी गतिम् ॥ ७४ ॥ सर्वपापाद
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ܙܣܙܙ܀
Page #8
--------------------------------------------------------------------------
________________
Scanned by CamScanner
.
.
.
.
.
.
.
.
महत्पापं भवत्यसत्यवादिनाम् । यतोऽन्यपापादल्पः स्यानाशोऽसत्याद्विशेषतः ॥ ७५ ।। स्वर्ग लभेत मोक्षं वा सत्यवाचः प्रभावतः । कालिकाचार्यवल्लोकः सत्ये सर्व प्रतिष्ठितम् ॥ ७६ ॥ सत्यमेव परं तत्त्वं सत्यं सौख्यकरं नृणाम् । जिहाया भूषणं
सत्यं तस्मात् सत्ये मनः कुरुः ॥ ७७॥ पूर्वोक्तधर्मकृत्यानि कर्त्तव्यानि सचेतनैः । इहलौकिककार्याणि कुर्वन्ति रासभा अपि २॥ ७८ ॥ अहो ! कष्टमहो! कष्टं मोहेनान्धीकृतं जगत् । आदी जीवलोकेत्र म्रियते कथमन्यया ॥७९॥ ययात्र मन्यते
बालो लालापानं पिबन् पयः । तथा दुःखमयीमयां दुःखं भ्रान्त्या सुखं भवेत् ॥ ८०॥ बुध्यसे न कयं जीवः संसारे । दुःखदायके । अरघट्टघटीवात्र भ्रामितः पापकर्मभिः॥८१॥ कथं त्वं खिद्यसे लोके दृष्ट्वान्यजनसङ्गताम् । लक्ष्मी कुरु तदा
धर्म यदि त्वं तां समीहसे ॥८२॥ धर्मः सर्वर्द्धिदो लोके धर्मो मुक्तिफलप्रदः। धर्म एव सखा सत्यस्तस्माद्धर्म समाचर!।। ८३॥ । दानशीलतपोभावश्चतुर्धा धर्म उच्यते । कर्त्तव्यो विधिना लोकैरात्मज्ञानसुखेच्छुभिः ॥ ८४ ॥ अभयादि परं दानं न भूतं न |
भविष्यति । तस्मात्तदेव कृत्वा त्वं सदात्र निर्भयो भव ॥ ८५॥तदानं द्विविधं प्रोक्तं द्रव्यभावविभेदतः। प्राणदानाद्भवेदाचं |
ज्ञानदानात्तयेतरत् ॥८६॥ आधादल्पो निरोधः स्यान्मृत्योरन्यात्सदैव च । ज्ञानदानेन तल्लोकान् विहीनान्मृत्युतः कुरु २॥ ८७ ॥ जन्तून् हि म्रियमाणाँस्त्वं रक्षयित्वा सुखी भव । परस्मै यो दिशेत् सौख्यं तेन स्वः क्रियते सुखी ॥ ८८॥ ब्रह्म
चर्य महल्लोके गीतं श्रीजिनपुङ्गवैः यस्य प्रभावतो लेभेऽनेके मुक्तिपदं परम् ।। ८९॥ शीलमेवोत्तमं वित्तं शीलं पापपणाशकम् । शीलं सौख्यकरं लोके शीलं दुर्गतिवारकम् ॥९० ॥ कर्मेन्धनं तपैः कर्तुं पार्यते भस्मसात् क्षणात् । तत्पः कुरुतां
.
Page #9
--------------------------------------------------------------------------
________________
Scanned by CamScanner
माणिन् ! यदीप्सा मोक्षशर्मणः ॥११॥ तपोजलेन शुध्यन्ति मलिनः पाणिनोऽपि हि । ज्ञातं दृढमहायंत्र तस्मात्तेनापि शुध्यताम् ॥९२॥ भावनाभिर्भवेद्भावः सुन्दरस्तेन ता वराः । क्रमशो द्वादशामा भो दत्तचित्तैर्निशम्यताम् ॥ १३ ॥
अथ प्रथमाऽनित्यभावनावज्रसारशरीरा ये ते ग्रस्ता कालरक्षसा। ये सैवार्तशरीराः स्युनरास्तेषां तु का कया ॥९४॥ पयोमनौतुवल्लोको विषयं । सेवते सदा । उत्क्षिप्त लकुटं नेव मृत्यु पश्यति मूर्खराद् ॥ ९५ ॥ वर्षानदीपयःपूरतरङ्गसदृशं वपुः । वायुहतध्वजेवात्र जीवनं ।
चपलं तथा ॥ ९६ ॥ अब्धिकल्लोललावण्यं यौवनं हस्तिकर्णवत् । क्षणिकाः सर्वसंयोगा वियोगान्तैकलक्षणाः ॥ ९७॥ विबुध्यानित्यतामेवं सर्वभावेषु सर्वदा । अत्यन्तेष्टवियोगपि नैव शोच्यं कदाचन ॥९८॥ वस्तुस्वरूपमूढात्मा नित्यत्वग्रहकारकः । घटमात्रेऽपि भग्नेत्र शोचति हा! मुहुर्मुहुः ॥९९ ॥
अथ द्वितीयाऽशरणभावना_ चक्रीवली हली लोके शक्रादीन्द्रगणस्तथा । सर्वेकालमुखं जग्मुर्न कश्चिच्छरणं ददौ ॥१०॥ कालाग्निदग्धदेहानां मातृपितृ मुखोगणः। उपाये नैव शक्तः स्यात् कालस्य गहना गतिः॥१०१॥ अहो चटकपोतानि मातृपित्रोः प्रपश्यतोः ।
पतितानि यथा वह्नौ दह्यन्ते शरणं विना ।। १०२॥ सदा कालकरालानौ तथैव पतिताञ्जनान् । पश्यतां मातृपितृणां दहति ३ कालवहिकः ॥१०३॥ मेरुदण्ड तथा जम्बूद्वीपं छत्रं भवेदलम् । कत्तुं यस्तीर्थनाथस्स हा! हा! कालमुखं गतः॥१०४ ॥
0.00000000000०.०००.................
!
Page #10
--------------------------------------------------------------------------
________________
Scanned by CamScanner
॥८॥
०००००००००००००००००................
अथ संसारभावनाध्रुवं धिक्कारयोग्योऽयं संसारो दुःखदायकः । यस्मिन्मृत्वा वरा देवा प्रयांत्येकेन्द्रियादिषु ॥१०५॥ कदायं नृपतिर्भूत्वा भुते भोगाननेकशः। कदा रङ्को भवेद्योऽपि शटितानं लभेत न ॥१०६॥ कदा रोगी कदा भोगी कदा योगी तयैव च । कदाचिच्छोकयुक्तः स्यात् तेन मुक्तः कदा भवेद् ॥ १०७॥ यो नृपो वाहनहींनश्चलितुं क्षमते नहि । स एव रासभीभूयातिभारं वहते सदा ॥१०८॥ यत्र माता भवेत्पत्नी पत्नी माता तथैव च । पुत्रः पिता पिता पुत्रो धिगिदं भक्नाटकम् । ॥१.९॥ संसारनाटके जीवा नृत्यन्ति विविधैर्भवैः । वेषैस्तथा इहा रङ्गमण्डपे नर्तका यथा ॥११०॥पापिनः पापयोगेन पच्यन्ते नारकाग्निषु । छिद्यन्ते च विभिद्यन्ते खिद्यन्ते च पुनः पुनः॥१११॥ मायाविनोपि मृत्वात्र जायन्ते पशवो भुवि । वाह्यन्ते निर्दयैर्लोकारयित्वा पुनः पुनः ।।११२॥ सहन्ते क्षुत्पिपासादीन्यन्यकष्टान्यनेकशः। तिर्यग्योनौ गता जीवा वर्णयितुं न शक्यते ॥ ११३ ।। मयोप्यसंख्यकष्टानि मर्त्ययोनौ निरन्तरम् । लभते रोगशोकादि जन्ममृत्युजरादिभिः॥११४ ।। देवा । देवीवियोगेन महर्द्धिदेवदर्शनात् । प्रत्याख्यानाधभावाच्च क्लिश्यन्ते प्रत्यहं हहो। ॥११५॥
अथ एकत्वभावना- यथा गतोऽत्रैकक एव जीवस्तथैकको गच्छति पारगत्यम् । कृतं यथा कर्म तथैककेन वै मुज्यतेऽन्यो न सहायक: स्यात् ॥११६॥ कटीसूत्रविहीनोऽयं यथायातस्तथैव च । गमिष्यति न संदेहो मोहं मुञ्चसि किं नहि ॥११७॥ ययैक
.....
Page #11
--------------------------------------------------------------------------
________________
Scanned by CamScanner
: स्योदरे रोगो भवेदत्यन्तदारुणः । भुते स एव दायादो न कोऽपि रोगिणां भवेत् ॥ ११८ ॥ यदर्थ क्लेशकष्टान्यवगण्य द्रव्यमयते । मृते न तत्कुटुम्बं तत् नरकादौ सहायकृत् ॥ ११९।। मत्वेति स्वकुटुम्ब तच्छरीरं क्षणिकं तथा । सर्वमन्यद्भवेज्जीवाव सहायं धर्ममर्जय ॥१२०॥
अथ अन्यत्वभावना- अयं कायमपि त्यक्त्वा गच्छत्यन्यं भवं भवी । तदन्यं वस्तुवातस्य कः सम्बन्धो विचार्यताम् ? ॥१२१॥ तस्माद् गेहादिकं त्यक्त्वा धर्ममेकं समाचर । स एव दुःखनाशाय चेह परभवे मतः ॥ १२२॥ सर्वस्माद्विषयादन्यो यथाऽयं विषया - इमे । अस्मादन्ये तथाभाव्य समचित्तः सुखीभव !॥१२३॥ एवमन्यत्वभावेन वासिवान्ताः कदापि न । लेशमात्रमपि शोकं लभन्ते सत्त्वराशयः॥१२४ ॥
अथाशुचिभावना__ यथा विष्टागताः लोके पदार्या शुभतोऽशुभाः। तथा कायङ्गता मन्येतः कायमशुचेगृहम् ॥ १२५॥ बभ्रमुर्यत्र लो- || कानां कमले भ्रमराइव । नेत्राणि चर्मणा हीनं तच्छरीरं घृणास्पदम् ।। १२६ ॥ भवत्यतोनुमीयेत चर्मणा छादिता हीयं । । अशची रक्षिता. मढवञ्चनायैव वेधसा ।। १२७॥ (युग्मम्) । एकैकरोमकूपोपि संख्यरोगैश्च परितः । ते सर्वे प्रकटाः स्यु
श्चेत् तदाऽशुच्या गतं भवेत् ॥ १२८ ।। सुगन्धयुक्तवस्तूनां निष्ठा विष्टास्ति यत्र भोः । कथं शुचिशरीरं तन्मन्यन्ते मृदबुद्धयः
.........................
क न्कार
Page #12
--------------------------------------------------------------------------
________________
Scanned by CamScanner
॥१२९॥ चन्दनादिरसो यस्य संसर्गान्मलसाद्भवेत् । तस्मिन्नशुचिके काये रज्यन्ते मृढमानसाः ॥१३०॥ सहस्रकुम्भैः ॥१०॥ कृतशुद्धयोऽपि नान्तः पवित्राः पुरुषा भवन्ति । तज्ज्ञस्तनौ मोहमयी प्रवृत्तिं त्यक्त्वा निवृत्तिं भजते सुखार्थी ॥१३१॥
अथाश्रवभावना_मनो-वचन-कायाश्च योगाः कर्म शुभाशुभम् । जीवानामाश्रवन्त्येते तेनोक्ता आश्रवा जिनैः ॥ १३२ ।। मैत्रीभावन । सत्वेषु प्रमोदेन गुणाकरे । माध्यस्थ्येन विरुद्धेच क्लिष्टे कृपापरत्वतः॥१३३ ॥ वासितान्ता नराः पुण्यं विविधमर्जयन्ति ये। । अनुबन्धं शुभं नित्यं प्राप्नुवन्ति सदैव ते ॥ १३४ ॥ (युग्मम् ) अशुभध्यानमिथ्यात्वकषायै विषयैस्तथा। द्वयशीति विधपापं
ये बध्नन्ति दु:खिनस्तुते ॥ १३५॥ सर्वज्ञगुरुसङ्घादिगणस्य स्तवने रतः। ब्रूते हितं वचो नित्यं चिनुते शुभकर्म सः ॥ १३६॥ सर्वज्ञोक्तविरुद्धो य उन्मार्गस्य प्रकाशकः । मार्गस्य नाशको लोके पुष्यत्यशुभकर्म सः ॥ १३७ ॥ स योऽस्ति रासभो लोके शुद्धशैलीविनाशकः । घोरनारकता प्राप्तश्चानन्तं दुःखमश्नुते ॥ १३८ ॥ देवार्चनपरा लोका गुरोर्नत्यां परायणाः। जीवरक्षाकरा नित्यं पुष्यन्ति शुभकर्म ते ।। १३९ ॥ य इमां भावनां नित्यं स्थिरी कुर्यात् स्वचेतसि । स तु शुभगतिं पाप्य ध्रुवं मुक्तिपदं व्रजेत् ॥ १४ ॥
अथ संवरभावनासंवरः स्याद् द्विधा लोके देशतः सर्वतस्तथा । आश्रवाणां निरोधैकलक्षणः संवरो मतः ॥ १४१ ॥ सर्वसंवरका
॥
Page #13
--------------------------------------------------------------------------
________________
Scanned by CamScanner
..........
स्यादयोगी केवली सदा । तदन्येषां सुदृष्टीनां संवरो देशतो भवेत् ॥ १४२ ॥ मिथ्यात्वाव्रतमुख्याणामाश्रवाणा प्रयत्नतः। निरोधाय च कर्त्तव्या उपायास्तद्विरोधिनः ॥१४३ ॥ इमा यो भावनां चित्ते स्मरत्यहोनिशं नरः। स स्वर्गफलमासाद्य शटिति मोक्षगो भवेत् ॥ १४४ ॥
अथ निर्जराभावनाभवभ्रमणकारिण्या अभावः कर्मसन्ततेः । निर्जरा कथ्यते लोके सकामा कामभेदतः ॥ १४५॥ व्रतस्येषु सकामा । स्याद कमा शेषजन्तुषु । कर्मणामाम्रवत्पाकः स्वतः स्यादन्यतः कचित् ॥ १४६ ।। छेदाढ़ेदालमेरन् यत्कष्टमेकेन्द्रियादयः ।
तस्माद्यत्कर्मणां शाटः साकामनिर्जरा मता ॥ १४७ ॥ स्ववशो ज्ञानभावेन शुभध्यान-तपो-जपैः । यो भवेत्कर्मणां शाटः सा सकामोच्यते बुधैः॥१४८॥ सकामां सुखदा लोका! विधत्त निर्जरां सदा । येन संसारदुःखेभ्यो यूयं मुक्ता भविष्यथ ॥१४९॥
अथ लोकभावनाउर्ध्वतिर्यगधोभेदै लॊकत्रिविध उच्यते । विशेषं तत्स्वरूपन्तु विज्ञेयमन्य शास्त्रतः॥ १५०॥
____अथ बोधिदुर्लभभावनापृथिव्यादिषु षसु स्यादनन्तं मरणं यदा । परावर्त्तनमेकं स्यात्पुद्गलानां जिनोदितम् ॥ १५१ ॥ दुर्लभस्तदनन्तैईि
Page #14
--------------------------------------------------------------------------
________________
Scanned by CamScanner
. धर्मोस्ति श्रीजिनोदितः । इति ज्ञात्वा प्रयोक्तव्या उपाया धर्मसाधकाः ॥ १५२ ॥ ॥१२॥
अथ धर्मकथकोर्हन्निति भावनालोकालोकस्वरूपज्ञाः केवलितीर्थनायकाः। यथार्थ धर्मतत्वं हि वक्तुं शक्ता न चापरे ॥ १५३॥ यतो रागविहीनास्ते | ततः सत्यमरूपकाः । न ब्युरनृतं कापि ततस्तद्धर्मसत्यता ॥ १५४ ।। जिनोक्तं दशधा धर्म क्षान्त्यादि भेदभूषितम् । ये कुर्वन्ति नरास्ते च लभन्ते सुखसंपदाम् ।। १५५ ॥ इत्यादि देशनां श्रुत्वा पप्रच्छ नरपुङ्गवः । कर्मणा केन मे नाथ ? पुत्र पङ्गुरजायत ॥ १५६ ॥ ततः प्रोवाच सूरीशो गाङ्गिलः शृणु प्राग्भवम् । अस्यास्मिञ्जम्बुद्वीपेऽत्र क्षेत्र ऐरवते तथा ।। १५७ ।।नाम्नाऽचलपुरे राज्योमयया सहितो नृपः । महेन्द्रध्वजनामासीत् तयोः सामन्तसिंहकः ॥१५८ ॥ पुत्रोभूत् पठनार्थ स पाठशाला निरन्तरम् । गच्छन् द्यूतकृतां सङ्गादतिबूतरतोऽभवत् ॥ १५९ ॥ दुष्टद्यूतेन सर्वेषु व्यसनेषु पातितस्तथा । यथा क्षिभ्यः पितुर्मातुर्झटिति पतितः स तु ॥ १६०॥ पित्रा प्रबोध्यमानोपि यदा मूढो न बुध्यते । तत्यजे स तदा दुःखानिर्गतो नगराहिः ॥ १६१ ॥ अत्यजन्व्यसनं देशाटनं कुर्वन् गतः स तु । पुरे सुरपुरे रम्ये चम्पकेन विलोकितः ॥ १६२ ॥ सुन्दरामाकृति तस्य दृष्ट्वा च तेन श्रेष्ठिना । ज्ञातंयत्कोपि कुलजो दुःखितोत्र समागतः ॥ १६३ ।। सुकुमालशरीरत्वादन्यकार्याक्षम हि तम् । स्वगृहपार्थचैत्यस्य रक्षणार्थ मुमोच सः॥ १६४ ॥ जिनाबदौकितं द्रव्यं प्रच्छन्नं प्राप्य राजसूः । रमते द्यूतकारैः स / सदा द्यूतपरायणः ॥ १६५ ॥ श्रेष्ठी तं ज्ञातवृत्तान्तः शिक्षयामासिवान् कदा । भोदेवद्रव्यनाशेन नरकं त्वं गमिष्यसि
Page #15
--------------------------------------------------------------------------
________________
Scanned by CamScanner
29"
....
॥१६६ ॥ माकार्षीर्दुष्टकर्मत्वमनन्तदुःखदायकम् । भववृद्धिकरं चैतत् कुम्भीपाकामिपाचकम् ।। १६७ ।। इत्यादि बोषितोपि । ॥१३॥
स महामिथ्यात्वमोहितः पापात्मा न बुबोधान्तः बुबोधबाबत्तितः ॥ १६८ ॥ एकदा भूषणानि श्रीजिनेशस्य स मूर्खराद् । || गृहीत्वागांत कचित्स्थाने सिसेवे नीचकर्म च ।। १६९ ॥ श्रेष्ठिना चम्पकेनाथ निष्कासितो गृहाबहिः। जगाम स वनं किचित् | मृगयादिकुकर्मकृत् ।। १७० ॥ शशकादीन्माणिनो हत्वोदरपूर्ति चकार सः। तत्रैक आश्रमो बस्ति तापसाना मनोहरः॥१७॥ एकदा तत्र वासिनी मृगी सामन्तसिंहकः । इत्वा चतुर्यु पादेषु नीचो भूमावपातयत् ॥ १७२।। तापसास्तां मृगी धर्म बोधयन्तो विशेषतः । निन्युः शुभगतिं पश्चात्तस्मै शाप ददुः क्रुषा ।। १७२ ॥ यथास्माकं हरिण्या रे! पादाः छिबास्त्वया तथा । पङ्गुः परत्र भूयास्त्वं स्वपरार्थविनाशक !॥ १७४ ॥ क्रुद्धाँस्ताँस्तापसान् दृष्ट्वा नष्टः सामन्तसिंहकः । मार्गस्थेनाथ सिंहेन भक्षितो नरकं गतः॥१७५॥ च्युत्वासंख्यभवान् भ्रान्त्वा तिर्यग्नारकरूपकान् । अकामनिर्जरा भावान् मानुष्यत्वमुपार्जयत् ।। १७६ ।। क्षेत्रे महाविदेहेथ कुसुमाख्यपुरे वरे । कीर्तिरानो गृहे दास्याः शिवायाः स सुतोजनि ।। १७७॥ राजानं सेवमानोथ वज्रनामा स दासः । तारुण्यं पाप लावण्यात् योषितां चित्तहारकम् ॥ १७८ ॥ प्राकृतकर्मदोषेण कुष्टरोगो भवत्तनौ । तस्य पादौ गलित्वैव पतितौ दु:खितोजनि ।। १७९ ॥ मृत्युकोटि समापन शिवा श्रावयतीह तम् । नमस्काराख्य मंत्रं सक्षुत्वातं व्यन्तरोजनि ।। १८० ॥ ततश्युत्वात्र भरतक्षेत्रे सौहार्दनामके । पुरे स सुरदासस्य वसन्ततिलकोदरे ॥ १८१ ॥ आयातो नव मासेषु जातेषु सुषुवे सुतः । नाम्ना स्वयंप्रभो जज्ञे विवेकिन शिरोमणिः ॥ १८२ ॥ (युग्मम् ) परं प्राकृतकर्मभ्यः कुष्टरोगो
...
.......pan
॥१३॥
Page #16
--------------------------------------------------------------------------
________________
Scanned by CamScanner
भवत्तनौ । हस्तपादैविहीनः स तेन जातः स्वयंप्रभः ॥ १८३ ॥ एक एवाभवत्पुत्रः पित्रोः कष्टं ततो महत् । अनेकोपायमाकाष्टी पितरौ दुःखितावपि ॥ १८४ ॥ अष्टवर्षाणि यावन तस्य रोगो ननाश सः । तावदेको महान्सङ्क: श्रीमच्छत्रुञ्जयं पति ।। १८५ ॥ चचाल तेन सक्लेन सहैव श्रेष्ठिराट् स च । स सुतभार्यको गतवान् धर्मप्रेमपरायणः ।। १८६ ॥ (युग्मम् ) गिरिराजोपरिं गत्वा सूर्यकुण्डजलेन सः। स्नपयामास पुत्रं खं देवताधिष्ठितञ्जलम् ॥ १८७ ॥ परं लग्नं शरीरे न तस्यकर्मानुभा- । वतः। अन्ये सजनाः सर्वे स्नात्वा श्री ऋषभप्रभोः॥१८८।। चक्रुः पूजामनेकैर्हि द्रव्यैर्नानाप्रकारतः। पश्चात्तत्पगुवृत्तान्तः पृष्टः साधुसमीपके ॥ १८९ ॥ (त्रिभिर्विशेषकम् ) किं कारणं प्रभोरत्र स्पृष्टं पङ्को स्तनौ नहि । जलं रुग्ण इति पृष्टयाचष्ट मुनिपुगवः ॥ १९० ॥ अनेन पूर्वकाले हि देवद्रव्यं विनाशितम् । तथैकस्या हरिण्याश्च छेदिता मूलतः पदः ।।१९११॥ तत्कास्य बहुक्षीणमवशिष्टं किञ्चिदेव हि । वर्त्तते तेन पस्पर्श न तनावस्य तज्जलम् ॥१९२॥ एतन्मुनिवचः श्रुत्वा पिता माता च पुत्रकः।
त्रयो वैराग्यमापना धर्मध्यानपरायणाः॥ १९३ ॥ श्रीमन्तमृषभं देवं वन्दित्वा स्वगृहं गताः । कुर्वन्त्यहोनिशंघर्म रोगिणो । भेषजं यथा ॥ १९४ ॥ अथ मृत्वा स पङ्गुस्तत्कालोच्य यथा विधि । सहस्रषोडशान्दायु क्वागात् प्रथमां दिवम्
॥१९५ ॥ ततश्श्युत्वात्र हे राजनयं पिङ्गलरायकः । सञ्जातस्तव पुत्रोस्तीत्युवाच गाङ्गिलो मुनिः ॥ १९६ ॥ पुनरपि मुनिधर्मदेशनापूर्वकं वचः । उवाचानेन मिथ्यात्वादेतत्कर्मकृतं हहा ! ॥ १९७ ।। तथाहि
मद्यपानाधया जीवो न जानाति हिताहिते । धर्माधर्मों न जानाति तथा मिथ्यात्वमोहितः ॥१९८॥ मिथ्यात्वेना
___
Page #17
--------------------------------------------------------------------------
________________
Scanned by CamScanner
लीढचित्तानितान्तं तत्त्वातत्वे जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिदस्तुजाते रम्यारम्यव्यक्तिमासादयेयुः ॥ १९९ ॥ अभव्याश्रितमिथ्यात्वेऽनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता ॥ २०० ।। इभ्यमनेन जीवेन | कर्मवदमनेकशः तेन पङ्गुरयजातः पुत्रः दुःखाकरस्तव ॥२०१॥ राजा पप्रच्छ हेनाय ! उपायः कोपि कथ्यताम् । यस्याa सेवनमात्रेण पुत्ररोगात्ययो भवेत् ॥२०२॥ मुनिः प्रोवाच हे राजन् ! तृतीयारकशेषके । सार्धाष्टमासत्रिवर्षे माघकृष्णत्रयो
दशी ॥ २०३ ।। अत्यन्तरमणीयासीद् यस्यां श्रीऋषभप्रभोः । निवाणमभवत्वेन तिथिः कल्याणकारिणी ॥२०४॥ (युग्मम्) तस्यां चतुर्विधाहारपरित्यागं विधाय भोः । उपवासो हि कर्तव्यः कर्मरोगविनाशकः ॥२०५ ।। दौकनीयञ्च रत्नस्य जिनाने मेरुपञ्चकम् । मध्य एको महान्मेरुश्चत्वारो लघवो दिशि ।। २०६॥ चतुर्दिक्षु तथा नन्यावर्ताः कार्याः प्रयत्नतः । तावन्त एव यावन्तो मेरवो लघवः कृताः॥ २०७॥ धूपदीपादिभिद्रव्यैः पूजा कार्या जिनेशितुः । मासत्रयोदशं यावचावर्ष तथैव वा ॥२०८ ।। पारङ्गताय देवाय नाभेयाय नमोनमः।
(ऊँ ही श्री ऋषभदेवपारङ्गताय नमः) सहस्रदयवार जपनीयमिदं मुदा ॥ २०९ ॥ प्रतिमासं प्रकुर्वन् सम्मेवं धर्मपरायणः । रोगहीनो भवेज्जीवः परत्रावि ।। I: सुखीभवेत् ॥ २१० ।। पौषधस्यैस्त्रयोदश्यां विधिः कर्तुं न पार्य्यते । पारणकदिने कार्यस्तस्या विधिः समग्रतः॥ २१ ॥ - अतिथिसंविभागश्च कृत्वा भुञ्जीत मानवः । इथं गुरुवचः श्रुत्वा व्रतं लात्वा गृहं गतः ॥ २१२ ।। सपुत्रोनन्तवीर्यस्स सक
Page #18
--------------------------------------------------------------------------
________________
Scanned by CamScanner
॥१६॥
००००००००००००००००
299००.......
लत्रोऽभवत्सुखी । धर्मध्यानप्रभावेण धर्मः कल्पद्रुमः खलु ॥ २१३ ।। माघकृष्णत्रयोदश्यां प्रथम कृतवान् व्रतम् । विचरणा। स्कुरौ जातौ पिङ्गलस्य तदा तनौ ॥२१४।। यावत्रयोदशान्मासाँस्तपस्तस्य प्रकुर्वतः । सुन्दरं प्रकटीभूतं पाणिपादं तु तचनो
॥ २१५ ॥ अथ पिकलको हृष्टो विशेष धर्ममातनोत् । प्राप्ते षोडशके मासेऽवृणोत्ता गुणसुन्दरीम् ॥ २१६ ॥ बहूनां राजकन्यानां माणिग्रहणकर्म सः। अन्यासामपि चक्रेय विरक्तोऽनन्तवीर्यकः॥ २१७॥ राज्यं पिङ्गलरायाय दत्वा चारित्रमग्रहीत् । गागिलास्यमुनेः पार्चेतीतदोषमपालयत् ।। २१८।। शत्रुञ्जये महातीर्थेऽनशनं स मुदाकरोत् । कालं कृत्वा मुनीन्द्रोऽय पाप श्री. मच्छिवालयम् ॥ २१९ ॥ सन्नीत्यापालयल्लोकान् यावद्वषत्रयोदशम् । मेस्त्रयोदशी नित्यमारराध महीपतिः॥ २२०॥ पश्चादुद्यापनं कृत्वा त्रयोदशान्यकारयत् । मन्दिराणि जिनेशानां तावतीः प्रतिमास्तथा ॥ २२१ ।। स्वर्णमयीस्तथारूप्यमयी प्रेम्णा चकार सः । रत्नमयीस्तथा रत्नत्रयोदशविधैर्मुदा ॥ २२ ॥ मेरुपञ्चकमातत्य दौकितं प्रतिमंदिरम् । साधर्मिकाणां
वात्सस्यत्रयोदशचकार सः ॥ २२३ ॥ (युग्मम् ) महताडम्बरेणैव ससङ्घोगात् त्रयोदश-वारं श्रीतीर्थयात्रायै BI शानभक्तिं तथा व्यधात् ॥ २२४ ॥ ततः कियन्ति पूर्वाणि स्वं राज्यं च तथा व्रतम् । प्रपाल्य स्वकुमाराय राज्यं दत्वा
विरक्तवान् ।। २२५ ॥ श्रीमुनिमुव्रताचार्य पार्थे दीक्षा स पिङ्गलः । जग्राह बहुभिः पुम्भिः द्वादशाङ्गीमधीत्य च ।।२२६॥ | स चतुर्दशपूर्वज्ञः सञ्जातशुद्धमानसः । आचार्य पदवीं प्राप्य शुक्लध्यानं प्रचक्रमे ॥ २२७ ।। (युग्मम् ) द्वादशे घातिकर्माणि ..
॥१६॥ क्षपयित्वा महामुनिः । त्रयोदशे गुणस्थाने कैवल्यं पाप निर्मलम् ।। २३८ ।। देवैः स्वर्णमयं पचं रचितं चिचहारकम् । तत्रो
...
.
D
.....
Page #19
--------------------------------------------------------------------------
________________
Scanned by CamScanner
पविश्य सूरीशः केवलीदेशनां ददौ ॥ २२९ ॥ हा लोकाः द्वेषरागाभ्यां क्लेशप्रेमपरायणाः । यद्यदत्र विचेष्टन्ते तदकुं नैव ॥१७॥
पाय्यते ।। २३० ॥ अनन्तं प्राप्नुवन्त्यत्र दुःखं यत्ररकोद्भवाः । तदाभ्यां कृतमेवास्ति मत्वेत्येनौ परित्यज? ॥ २३१ ॥ सहसलक्षकोव्यादिम्रियते युद्धकर्मणि । सुभटानां गणस्ताभ्यां जीव! तत्तौपरित्यज ॥ २३२ ।। गर्भजानां नवैकेन लक्षं भोगेन नाश्यते । संख्यातीतान्यजातीनामत्र रागोऽपराध्यति ॥ २३३ ॥ रागाधीनमनुष्याणां सुखादुःखमनन्तकम् । यथासिपत्रधा
रामस्थितमधलिहां भवेत् ॥ २३४ ॥ देखो हा हृदयेष्टानामपि योगविनाशकः । ज्ञान-दर्शन-चारित्रवृक्षमूलंकषोमतः॥२३५।। । देषात् स्वकानपि पुत्रान नाशयन्त्यत्र मातरः । पच्यन्ते नरके हा ताः कुम्भीपाके मुहुर्महुः ॥२३६॥ यद्यत् कार्य भवेदत्र पर
मार्थ-पराक्मुखं । तत्तचाभ्यां विजानीया अनन्तदुःखदायकम् ॥ २३७ ॥ इत्यादि देशनां दत्वा विजहारान्यतो मुनिः । Bअनेकान् प्रतिसंबोध्य मुक्तिमार्ग प्रदचवान् ॥२३८॥ लक्षदासप्ततिपूर्वायुष्कः स केवलीमाः । चतुर्दशे गुणस्थाने
चटितोष सुखावहे ॥२३९ ॥ इस्वपञ्चाक्षरोच्चारकालमाने निरुध्य सः। योगाँश्च घातिकर्माणि क्षपयित्वा महामुनिः B॥२४॥शरीरबन्धनं त्यक्त्वैकेनैव समयेन च । जगामानन्ददं स्थानं जरामृत्युक्विर्जितम् ॥२४१॥ (त्रिभिर्विशेषकम् ) ॥ एवं मेस्त्रयोदश्या महिमातिप्रवृत्तवान् । श्रीमत्पिंगलरायाख्यान्नृपाद्राज्ञां शिरोमणेः ॥२४२॥ पूर्वे रत्नमयाः पश्चात्स्वर्णरूपास्वतोमवन् । राजता अधुना सन्ति मेरवो धृतनिर्मिताः॥२४३ ।। एवं मेरुत्रयोदश्या महिमानं विचार्य भोःलोका! आ
॥१७॥ राधयन्त्वेनां येन स्यात् मुखसंपदा ॥ २४४ ॥ संविद्धिकरस्तमः पटहरः कल्याणसस्पमदो, दुष्टाचार निवारको रविरिव ।"
Page #20
--------------------------------------------------------------------------
________________ Scanned by CamScanner // 18 // पाकाशयद्योभुवम् / आकाशंतपगच्छरूपमनघं चानन्दसूरीश्वरोधिष्ठायैव बभौ महाविजयवान् हार्द तमो हन्तु नः // 245 // तस्य पट्टधरो धीरो विजयात् कमलः परः। सूरीशः सूर्यवनित्यं तपागच्छपकाशकः // 246 // ईडरगिरिशीर्षस्यं द्विपञ्चाशजिनालयम् / उदारितं मुदेशनया स्थित्वा मासचतुष्टयीम् // 247 // अनेकराजपुत्राश्च निरुद्धा मांसभक्षणात् / येन कृपालुना रुद्धाः सन्ति पाखण्डिनोजनाः॥२४८ // प्रतिस्थलं गुणान् यस्य गायन्ति मुनिपुङ्गवाः। तद्भुजिम्येन सल्लन्धिविजयेनेहरे पुरे // 249 / / कर्णमुनिनिधीन्दबे (1972) विक्रमीये शुभे तथा / मासे भाद्रपदे शुक्लदशम्या शनिवासरे // 250 // श्रीमानविजयानां हि मया प्रेरणया कृतम् / गतं पूर्तिपथश्चैतत् पुस्तकं सुगम परम् // 251 // (त्रिभिर्विशेषकम्) श्रीमानविजयैराया लिपिरस्य कृता वरा / शानध्यानतपोनिष्ठैः परोपकृतिकर्मठैः // 252 // इति श्रीमद्विजयानन्दसूरीश्वरपट्टविभूषकश्रीमद्विजयकमलसूरीश्वरचरणोपासक जैनरत्नव्याख्यानवाचस्पति मुनिलन्धिविजयेन विरचितमिदं पुस्तकं समाप्तिमगमत् / समाता.