________________
Scanned by CamScanner
॥४॥
मन्त्रयित्वा बभाणाय मन्त्री बुद्धिविशारदः। आइय सेवकाँस्तान कुमारो वर्ततेऽत्र भोः! ॥४३॥ योजनद्विशते दूरे मातुलस्य गृहेऽस्ति सः। मोहिनी (मुहनी) पत्तने तस्माबेदानीं तद्भविष्यति ॥ ४४॥ पश्चाविज्ञापयिष्यामो विवाहसमयं वयम् । श्रुत्वेति जगदुईहो! स्वामिन् ! दूरेऽस्ति तत्पुरम् ।। ४५॥ लग्नं निर्धार्य दातव्यमागन्तव्यं तथा स्वयम् । सेवकानां वचः श्रुत्वा लग्नं निर्धारितं तदा ॥ ४६॥ मासषोडशकान्तरकं लग्नं लात्वा गतास्ततः। सेवका मलयं वृत्तं नृपं सर्वमचीकयन् ॥ ४७ ॥ पश्चादनन्तवीर्योऽपि चिन्तातुरो व्यचारयत् । उपायः कोऽत्र कर्त्तव्यः कालस्य त्वरिता गतिः ॥४८॥ मन्त्री नृपस्तथा राज्ञी सचिन्ता नैव लेभिरे । उपायान् यावता तावन्मुनिपञ्चशतीयुतः ॥ ४९ ॥ चतुर्ज्ञानधरो नाम्नाऽऽजगाम गाङ्गिलो मुनिः ॥ शुद्ध बने स्थितश्चास्य नगरस्य महामनाः ॥५०॥ वनपालमुखाच्छुत्वा खतिहृष्टो नृपोऽजनि । तुष्टिदानं ततो दत्त्वा हस्त्यश्वरथपत्तियुक् ॥ ५१ ॥ महामहोत्सवेनैव मुनिपार्थमियाय सः । वन्दनं मुनये दत्त्वा यथास्थाने स तस्थिवान् ॥ ५२ ॥ (चतुर्भिः कलापकम् ) सभ्यानामुपकाराय परोपकृतिकर्मठः । मुनिर्मधुरया वाचा प्रारंभे धर्मदेशनाम् ॥ ५३ ॥ चातुर्गतिकसंसारे मानुष्यमतिदुर्लभम् । चिन्तारत्नमिव प्राप्य मूर्हा! हायेते मुधा॥५४॥ देवता विषयासक्ता नारका दुःखविहलाः । ज्ञानहीनाश्च तिर्यचो धर्म योग्या हि मानवाः॥५५॥ यस्मिअस्ति दयावास इन्द्रियदमनं तथा । सत्यवान् विद्यते तस्मिन् धर्मभावोऽस्ति शाश्वतः॥५६|| दया धम जनन्यस्ति दयाधर्मस्य पालिका | पुण्यवृद्धिकरी लोके दौकान्तसुखपदा ॥ ५७ ॥ धर्मस्य जननी हत्वा दयां यो धर्ममिच्छति । स मूर्खस्तु विना