________________
Scanned by CamScanner
డిండిండిలోడికోడిపడివడి
. समालोचयन्तु सद्गुणगणरंजितमानसाः असौ मेरुत्रयोदशीकथानकाभिधो ग्रन्थो महता प्रयासेन त्रिभुवननिवासिसकलभव्यकजविकासनचित्रभानवो मिथ्यात्वतमस्सान्द्रे ज्ञानचक्षुर्विरहेण बंभ्रम्यमाणानां लुम्पकमतीनामुद्धरणबद्धकक्षा न्यायांभोनिधि-श्रीमद्विजयानंदसूरीश्वरा अभूवन् । तेषां पट्टे शुदमार्गप्रवर्तका आधुनिकाविर्भूतानां कुमतगजानां विदारणकेसरिणः तपागच्छगगनाकोः यदगुणमकरंदग्रहणासिकैर्मुनिपुङ्गवैः संसेवितचरणकजा निरीहाः श्रीमद्विजयकमलसूरीश्वराः विराजन्ते । तेषां स्फाटिकवनिर्मलमानससरसि हंसीयमानैरतिपौढवक्तत्व शक्तिरंजितमानसैरीडरनिवासिश्रीचतुर्विधसंधैरत्याग्रहेण दत्तजैनरत्नव्याख्यानवाचस्पतिनामकविरुदविभूषकैर्मुनिवर्यश्रीमल्लब्धिविजयैरनेकसाधुगुणालंकृतमुनिवर्यश्रीमन्मानविजयानां प्रेरणया सकलभव्यजनोपकाराय च पूर्व गद्यरूपेण संक्षिप्ततया तर्कफक्किकायशोधरचरित्र-श्रीपालचरित्रटीका-गौतमीयकाव्यटीका-अष्टाहिकव्याख्यान-चातुर्मासिकव्याख्यानादिग्रथितग्रंथमुनिवर्यश्रीमत-क्षमाकल्याणकैथितो वेविद्यते । तदाधारेण च पद्यरूपेणसाद्विशतपरिमितो सरलरीत्या संहब्धः परंतु प्रसंगोपलब्धानित्याशरणसंसारैकखान्यत्वाशुच्यश्रवसंवरनिर्जरालोकबोधिधर्मकथकाईनद्वादशभावनारूपविषयेन पूरितोऽस्त्यत एवात्युपकारको भावीति मन्ये ।
लेखक-जैनरत्नव्याख्यानवाचस्पति-मुनिवर्य श्रीमल्लब्धिविजयचरणोपासक-मुनि-गंभीरविजयः। అలలలలలలలలల లలలలల లలలలలలలలలలాల
Oakaskioskoskokanskasikasikackage