Book Title: Merutrayodashi Katha
Author(s): Labdhivijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 9
________________ Scanned by CamScanner माणिन् ! यदीप्सा मोक्षशर्मणः ॥११॥ तपोजलेन शुध्यन्ति मलिनः पाणिनोऽपि हि । ज्ञातं दृढमहायंत्र तस्मात्तेनापि शुध्यताम् ॥९२॥ भावनाभिर्भवेद्भावः सुन्दरस्तेन ता वराः । क्रमशो द्वादशामा भो दत्तचित्तैर्निशम्यताम् ॥ १३ ॥ अथ प्रथमाऽनित्यभावनावज्रसारशरीरा ये ते ग्रस्ता कालरक्षसा। ये सैवार्तशरीराः स्युनरास्तेषां तु का कया ॥९४॥ पयोमनौतुवल्लोको विषयं । सेवते सदा । उत्क्षिप्त लकुटं नेव मृत्यु पश्यति मूर्खराद् ॥ ९५ ॥ वर्षानदीपयःपूरतरङ्गसदृशं वपुः । वायुहतध्वजेवात्र जीवनं । चपलं तथा ॥ ९६ ॥ अब्धिकल्लोललावण्यं यौवनं हस्तिकर्णवत् । क्षणिकाः सर्वसंयोगा वियोगान्तैकलक्षणाः ॥ ९७॥ विबुध्यानित्यतामेवं सर्वभावेषु सर्वदा । अत्यन्तेष्टवियोगपि नैव शोच्यं कदाचन ॥९८॥ वस्तुस्वरूपमूढात्मा नित्यत्वग्रहकारकः । घटमात्रेऽपि भग्नेत्र शोचति हा! मुहुर्मुहुः ॥९९ ॥ अथ द्वितीयाऽशरणभावना_ चक्रीवली हली लोके शक्रादीन्द्रगणस्तथा । सर्वेकालमुखं जग्मुर्न कश्चिच्छरणं ददौ ॥१०॥ कालाग्निदग्धदेहानां मातृपितृ मुखोगणः। उपाये नैव शक्तः स्यात् कालस्य गहना गतिः॥१०१॥ अहो चटकपोतानि मातृपित्रोः प्रपश्यतोः । पतितानि यथा वह्नौ दह्यन्ते शरणं विना ।। १०२॥ सदा कालकरालानौ तथैव पतिताञ्जनान् । पश्यतां मातृपितृणां दहति ३ कालवहिकः ॥१०३॥ मेरुदण्ड तथा जम्बूद्वीपं छत्रं भवेदलम् । कत्तुं यस्तीर्थनाथस्स हा! हा! कालमुखं गतः॥१०४ ॥ 0.00000000000०.०००................. !

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20