Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 187
________________ मलय ॥ १८७॥ 5010014608484604470000696 तितोऽत्राहमश्वोऽप्येवं बभूव च ॥ ३९ ॥ आवयोर्न कदापीह रुग् जरा च मृतिस्तथा । भविष्यत्यन्य| दप्यत्र प्रविष्टैरिष्टमाप्यते ॥ ४० ॥ ततस्तत्र प्रवेशाय राजान्येऽपि समुद्यताः । सिद्धेनोक्तं ततो भो भोः क्षणमेकं विलंब्यतां ॥ ४१ ॥ पूजयाम्यनलं यावद्विधिवत्तोर्थमप्यथ । आनाय्याज्यादि चिक्षेप कूटमंत्रपुरस्सरं ॥ ४२ ॥ अहं पूर्व प्रवेक्ष्यामीत्युक्त्वा ध्यात्वा च वांछितं । प्राविशत्सहसा राजा सचि वोऽपि ततो द्रुतं ॥ ४३ ॥ कुमारो वारयामास सर्वान् प्रविशतः परान् । विलंब्यतां क्षणं राजमंत्रिनिर्गम ईक्ष्यतां ॥ ४४ ॥ न निर्गतौ चिरेणापि यावत्तौ तावदूविवान् । जनः सिद्ध यथा त्वं किं नायातौ नृपमंत्रिणौ ॥ ४५ ॥ सोऽवोचज्ज्वलनात् किं भोः कदाचित्कोपि निर्गतः । अहं तु कृतसान्निध्यः संतुष्टेन सुपर्वणा ॥ ४६ ॥ जनो जगाद हुं ज्ञातं वैरं स्वं वालितं त्वया । फलितोऽन्यायवूक्षोऽयं सपुत्रामात्यभूपयोः ॥ ४७ ॥ सामंताद्यैस्ततस्तत्र मंत्रयित्वा महानरैः । अराज्यापरे राज्ये सिद्ध एव कृतो नृपः ॥ ४८ ॥ ततोऽसौ पालयन् राज्यं न्यायेन जनसंमतः । सिद्धराज इति ख्यातोऽरिवर्ग दमयन्नभूत् ॥४९॥ 1898 चरित्रं ॥ १८७॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224