Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 190
________________ मलय- भारैः कातरचित्तवत् ॥ ७२ ॥ दत्वा शिक्षा ततो दूतस्ताभ्यां प्राक प्रहितो हितः । सागरतिलका ख्यस्य नगरस्य नरेशितुः ॥ ७३ ॥ दूतस्तत्र गतो द्वारपालेनांतः प्रवेशितः । कृत्वा प्रणाममेवं तं सिद्धराजं व्यजिज्ञपत् ।। ७४ ॥ पृथ्वीस्थानाधिपः शूरः सूरपालो नरेश्वरः । चंद्रावतीपुरोस्वामी श्रीवोरधवलोऽपि च ॥७५॥ तो द्वावपोह देव त्वामभियोढुं निरर्गलं। आयातो प्लावयंतो क्ष्मामिव पूर्वपरांबुधी ॥ ७६ ॥ बलसारस्त्वया योऽस्ति गृहीतः सार्थनायकः । तेन सार्द्ध महास्नेहोऽनयोहि | * नृपयोरपि ॥७७ ॥ सर्वेषां बांधवा दानावदान्या व्यवहारिणः। वर्षतो वारिदाः कं न प्रीगंति मधुर स्वराः ॥७८॥ मित्रवबंधुवत्पुत्रवदमुं व्यसनस्थितं । उपेक्षेते कथं सार्थवाहमस्मत्प्रभू प्रभो॥७९॥ बलसारोऽयमावाभ्यां कृतस्नेहो भृशं सह । कुलिनो व्यवहारी च तन्मोक्तुं देव युज्यते ॥ ८॥ कथापयत इत्येतावस्माकं स्वामिनी तव । मुच्यतामेष सत्कृत्य त्वया राज्यं च भुज्यतां ॥८॥ | क्षम्यतामपराधोऽपि तस्यैकोऽर्थवतो भृशं । छिद्यते फलितो वृक्षः किं पत्रैर्दूषितांगणः ॥ ८२ ॥ कक्षीकृतोऽस्मदीशाभ्यां दुर्निग्राह्योऽस्त्ययं धनी । गर्जत्सिंहं वनं दृष्टुमपि किं कुंजरः क्षमः ॥ ८३ ॥

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224