________________
मलय- भारैः कातरचित्तवत् ॥ ७२ ॥ दत्वा शिक्षा ततो दूतस्ताभ्यां प्राक प्रहितो हितः । सागरतिलका
ख्यस्य नगरस्य नरेशितुः ॥ ७३ ॥ दूतस्तत्र गतो द्वारपालेनांतः प्रवेशितः । कृत्वा प्रणाममेवं तं सिद्धराजं व्यजिज्ञपत् ।। ७४ ॥ पृथ्वीस्थानाधिपः शूरः सूरपालो नरेश्वरः । चंद्रावतीपुरोस्वामी श्रीवोरधवलोऽपि च ॥७५॥ तो द्वावपोह देव त्वामभियोढुं निरर्गलं। आयातो प्लावयंतो क्ष्मामिव
पूर्वपरांबुधी ॥ ७६ ॥ बलसारस्त्वया योऽस्ति गृहीतः सार्थनायकः । तेन सार्द्ध महास्नेहोऽनयोहि | * नृपयोरपि ॥७७ ॥ सर्वेषां बांधवा दानावदान्या व्यवहारिणः। वर्षतो वारिदाः कं न प्रीगंति मधुर
स्वराः ॥७८॥ मित्रवबंधुवत्पुत्रवदमुं व्यसनस्थितं । उपेक्षेते कथं सार्थवाहमस्मत्प्रभू प्रभो॥७९॥ बलसारोऽयमावाभ्यां कृतस्नेहो भृशं सह । कुलिनो व्यवहारी च तन्मोक्तुं देव युज्यते ॥ ८॥
कथापयत इत्येतावस्माकं स्वामिनी तव । मुच्यतामेष सत्कृत्य त्वया राज्यं च भुज्यतां ॥८॥ | क्षम्यतामपराधोऽपि तस्यैकोऽर्थवतो भृशं । छिद्यते फलितो वृक्षः किं पत्रैर्दूषितांगणः ॥ ८२ ॥ कक्षीकृतोऽस्मदीशाभ्यां दुर्निग्राह्योऽस्त्ययं धनी । गर्जत्सिंहं वनं दृष्टुमपि किं कुंजरः क्षमः ॥ ८३ ॥