________________
मलय
॥१९१॥
980418300146074260840
शूरोऽप्यल्पबलोऽसि त्वं तौ चासंरव्यबलौ नृपौ । अपारे पारावारेऽस्मिन् मा मृस्त्वं सक्थुमुष्टिवत् ॥ ८४ ॥ मोचयिष्यत एवैनं त्वां पुनः शिक्षयिष्यतः । नृपौ द्वावपि सिंहे हि सज्जितांह्रौ गजेन किं ॥ ८५ ॥ मास्मभूराततायी त्वं लंकेश इव मा मुँहुः । दीर्घ चिंतय कार्य चार्जितं राज्यं चिरं कुरु ॥ ८६॥ इति दूतमुखात्सर्वं श्रुत्वा सिद्धनरेश्वरः । जनकश्वसुरौ तत्र ज्ञात्वायातौ च गूढहृत् ॥ ८७ ॥ हर्षेण प्रोल्लसद्रोमा रसेनेव रणोद्भवा । कृत्रिमाटोपसंयुक्त दूतंप्रति जगाविति ॥ ८८ ॥ युग्मं ॥ यदि दूत प्रभृ ते तौ बहुसैन्यावुभावपि । तत्किं न द्विभुजौ नैकदेहो किं वा न सैनिकैः ॥ ८९ ॥ रविकोऽपि ताराणां माहात्म्यं ग्रसते न किं । गजेंद्राणां न किं दर्प हरत्येकोऽपि केसरी ॥ ९० ॥ अभीष्टोऽपि सुतो दुष्टः शिक्ष्यते न्यायिभिर्न किं । किं चेष्टो भवतामेष यद्यस्माकं ततः किमु ॥ ९१ ॥ बलिभिः कलितौ मूर्ध्नि पलितौ न्यायवादिनो | त्वदीशौ मोघयंतौ तं लज्जेते नापराधिनं ॥ ९२ ॥ स्वीकृतान्यायिपक्षौ तौ कीदृशौ युधि मे पुरः । प्रदत्तोलूक संचारनिशातिमिरवद्रवेः ॥ ९३ ॥ विक्रामति हरौ कीदृक् स्फुरणं हरिणीशिशोः । विद्युत्पाते परित्राणं किं वृक्षेण गृहेण वा ॥ ९४ ॥ शिक्षणीयोऽत्र
Kip Kop K B D d
चरित्रं
॥ १९१७