________________
मलय
॥ ६० ॥ दक्षः सोमाभिधस्तेन प्रेषितो निजपूरुषः। शिक्षयित्वा ततः सर्व श्रीवीरधवलांतिके ॥६॥ IX गच्छतार्द्धपथे तेन रौद्राटव्यामुभावपि । प्राप्तौ तौ वीरधवलसूरपालाभिधी नृपो ॥६२॥ द्वयोरपि तयो॥१८॥
येन राज्ञोलोंकमुखान्मृषा । शुद्धिर्मलयसुंदर्या जाता युगपदीदृशी ॥ ३ ॥ रोद्राटव्यां यतो दुर्गति|लकाख्यमहागिरौ । भीमपल्लीपतेः पार्श्वेऽस्ति सा मलयसुंदरी ॥ ६४ ॥ वखराज्यात्ततस्तत्रायातो | द्वावपि भूपती। ताभ्यां पल्लीपतिः सोऽथ लीलया दुर्जयो जितः ॥६५॥ वीक्षिता तत्र सर्वत्र ताभ्यां मलयसुंदरी। किंतु तस्याः पदमपि । दुर्लभाया अलाभि न ॥ ६६ ॥ नरेंद्रौ तौ ततो याव-13 द्यास्यतः स्वपुरंप्रति । तावत्सीमेन विज्ञप्तः श्रीवीरधवलो नृपः ॥ ६७ ॥ तथा तथोदितं सर्व बलसा| रस्य वाचिकं । गज्ञा वीरधवलेन द्रुतमंगीकृतं यथा ॥ ६८ ॥ तेना? यच्छता ख्यातं सूरपालाय
भृभुजे । सर्व बहु मतं तेनाप्युल्लसल्लोभवार्द्धिना ॥ ६९ ॥ सदावयोरिदं वैरिगेहं कमपि तन्नवं । | हत्वामुं नृपमेतस्य सर्वस्वं गृह्यतेऽधुना ॥ ७० ॥ मंत्रयित्वेति तो सिद्धराजस्योपरि भूपती । असं-12 | ख्यबलसंयुक्तौ प्रचेलतुरुभावपि ॥ ७१ ॥ प्राप्ती सागरतिलकपुरादारान्नरेश्वरौ। कंपयंतौ भुवं सैन्य