Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 207
________________ मलय ॥२०७॥ *480*45*700*48098980467608467608467008 न किंचन । कर्त्तुं शशाक देहस्य जलस्य ज्वलनो यथा ॥ ६० ॥ ततो रोषेण सा रात्री प्रसुप्तस्यास्य निर्भरं । वासवेश्म समागत्य चकारोपद्रवं सदा ॥ ६१ ॥ तया हृत्वा कुमारस्य वस्त्रालंकरणान्यपि । तत्र मुक्तानि यत्राप कुमारो वटकोटरे ॥ ६२ ॥ कन्या मलयसुंदर्या योऽर्पितः पूर्वसंगमे । लक्ष्मीपुंजः कुमाराय हारो निजहृदा समं ॥ ६३ ॥ सोऽपि हारः कुमारस्य शयितस्य तथा निशि । अपजह्वे स्ववैरेण व्यंतर्या वासवेश्मतः ॥ ६४ ॥ पाश्चात्यजन्मनः स्वस्रा दधत्या स्नेहमेतया । कंठे कनवत्याः स ततो नीत्वा निवेशितः ॥ ६५ ॥ अत्रांतरेऽवदद्वीरधवलो विस्मिताशयः । भगवन् किमिदं ) सम्यग् वदास्माकमसंभवि ॥ ६६ ॥ येनैष मिलितो नैव कदाव्यस्या महाबलः । स्वयंवराभिधं मुक्त्वा तदैकं वरमंडपं ॥ ६७ ॥ ततः कुमारसुंदर्योदपत्योः स्मयमानयोः । सर्वमप्यवदत्सूरिर्ज्ञानदृष्टत्रिविष्टपः ॥ ६८ ॥ कुमारो मिलितः पूर्वं यथा तत्रागतश्च सः । लक्ष्मीपुंजो यथा हारः कुमार्यास्मै समर्पितः ॥ ६९ ॥ तया कनकवत्याथ यथा प्राग्भववैरतः । कूटाख्यानैः पिता पुत्र्या उपरिष्टात्प्रकोपितः ॥ ७० ॥ इत्या KBJ Soft & 09 Gada + H चरित्रं ॥२०७॥

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224