Book Title: Mahabal Malaysundari Charitra
Author(s): Jaytilaksuri
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 212
________________ मलय- ॥२१२॥ पृच्छ्य महाबलं । स्वसारं सुंदरीं चापि जगाम निजपत्तनं ॥ १६ ।। पुरे सागरतिलके मुक्त्वा सेनापतिं निजं । सार्द्ध शतबलेनागात्स्वं पुरं च महाबलः ॥ १७ ॥ राज्यं च पालयामास जितदुर्जयशा- | त्रवः । सकुटुंबः सिषेवे च जिनधर्ममहर्निशं ॥ १८ ॥ तस्य व्यंतरदेवस्य साहाय्याद्विषयान् बहून् । | वशीचकार चक्रे च जिनधर्मसमुन्नतिं ॥ १९ ॥ प्रासादान् कारयामास जिनानां च पुरे पुरे । स्मरन् पूर्वभवं चक्रे साधुभक्तिं च सर्वदा ॥ २० ॥ द्वितीयोऽथ तयोः पुत्रः सहस्रबलसंज्ञितः । कालक्रमेण | संजज्ञे निजवंशधुरंधरः ॥ २१ ॥ कृत्वा बहूनि वर्षाणि राज्यं वयसि पश्चिमे । स राज्ये स्थापयामास | | सहस्रबलमंगजं ॥ २२ ॥ ततः सागरतिलके वेलाकूले रमाकुले । राज्यं पालयति ज्येष्टे पुत्रे शतबलाभिधे ॥ २३ ॥ पृथ्वीस्थाने क्रमायातं राज्यं शासति सुंदरं । गुणज्येष्टे कनिष्टे च सहस्रबलनामनि ॥२४॥ पादमूले गुरोर्भार्यायुक्तो राजा महाबलः । महोत्सवेन जग्राह विधिना संयमश्रियं ॥२५॥ त्रिभिर्विशेषकं ।। द्वावपि द्विविधां शिक्षां शीलयंती विजहृतुः । सार्द्ध गुरुजनैर्नित्यं तप्यमानो तपश्च तौ ॥ २६ ॥ गत्वा गत्वा च तौ धौ प्रेरयामासतुः सुतौ । वारयामासतुर्नित्यं व्यसनासेवनात्पुनः ॥२१॥

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224