Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
है य्याकस्तस्य, अणटाबंधियस्स अनर्थकबंधिनः पक्षमध्ये अनर्थकं निष्प्रयोजनं एकवारोपरि द्वौ त्रीश्च
तुरो वारान् कंबासु बंधान् ददाति, चतुरुपरि बहूनि अड्डकानि वा बध्नाति, तथा च खाध्यायविघ्नपलिमंथादयो दोषाः, यदि चैकांगिकं चंपकादिपट्ट लभ्यते तदा तदेव ग्राह्य, बंधनादिपलिमंथपरिहारात् , अमियासणियस्स अमितासनिकस्य अबद्धासनस्य मुहुर्मुहुः स्थानात्स्थानांतरं गच्छतो हि सत्त्वबधः स्यात् , अनेकानि वा आसनानि सेवमानस्य, अणातावियस्स संस्तारकपात्रादीनां आतपे । । सणियस्स अणातावियस्स असमियस्स अभिक्खणंअपडिलेहणासीलस्स । अदातुः असमियस्स ईर्यादिसमितिषु अनुपयुक्तस्य अभिक्खणंति वारं २ अप्रतिलेखनाशीलस्य दृष्ट्या, 18 अप्रमार्जनाशीलस्य रजोहरणादिना, ईदृशस्य साधोः संयमो दुराराधो भवति, [अत्र किरणावलीदी|पिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगौ लिखितौ तौ चिंत्यौ ! दुःखीषतः कृच्छ्राकृच्छ्रार्थाखल इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध इति दुष्प्रतिपाल इति च भवनात् , न च |

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622