Book Title: Jain Viaha Vidhi
Author(s): Sumerchand Jain
Publisher: Sumerchand Jain

View full book text
Previous | Next

Page 13
________________ ( ३ ) " 'खट्वाङ्ग' नैव हस्ते, न च हृदि रचिता, लम्बते रुण्डमाला | भस्माङ्ग नैव शूलं, न च गिरिदुहिता, नैव हस्ते कपालम् ॥ चन्द्रार्द्ध नै मूर्द्धन्यपि वृषगमनं नैव कण्ठे फणीन्द्रम् । तं वन्दे त्यक्तदोष, भवभयमथनं, ईश्वरं देवदेवम् ||३|| पुष्पं यो विश्व वेद वेद्यं, जननजलनिधेर्भङ्गिनः पारदृश्वा । पौर्वापर्य्याविरुद्ध, बचनमनुपमं, निष्कलंकं यदीयम् || तम्बन् साधुवन्द्य', सकलगुणनिधिं, ध्वस्तदोष द्विषन्तम् बुद्धं वा वर्द्धमानं, शतदलनिलयं केशवं वा शिवं वा ॥ ४ ॥ पुष्पं रागो यस्य न विद्यते क्वचिदपि प्रध्वस्तसंगग्रहादस्त्रादिपरिवर्जनान्नच बुधैः, द्वेषोऽपि संभाव्यते ॥ तस्मात्साम्यपथात्मबोधनिरतो, जातः क्षयः कर्मणा । मानन्दादिगुणाश्रयस्तु नियतं मोऽर्हन्सदा पातुवः || ५|| पुष्पं जातिर्याति न यत्र यत्र च मृतो, मृत्युर्जराजर्जरा । जाता यत्र न कर्मकायघटना, नो वाग्न च व्याधयः || यत्रात्मैव परं चकास्ति विशदः, ज्ञानैकमृर्त्तिप्रभुः । नित्यं तत्पदमाश्रिता निरुपमा, मिद्धाः सदा पान्तुवः | ६ | पुष्पं जित्वा मोहमहाभयं भवपथे, दत्तोग्रदुःखाश्रमे । विश्रान्ता विजनेषु योगिपथिका, दीर्घे चरन्तः क्रमात् ॥ प्राप्ता ज्ञानधनाश्चिरादभिमताः, स्वात्मोपलम्भालयं । नित्यानन्द कलत्रसङ्गसुखिनो, ये तत्र तेभ्यो नमः ||७|| पुष्पं (इति पुष्पाञ्जलिं क्षिपेत) इति इष्टदेवस्तुतिः समाप्ता ,

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47