Book Title: Jain Viaha Vidhi
Author(s): Sumerchand Jain
Publisher: Sumerchand Jain

View full book text
Previous | Next

Page 18
________________ सम्यग्दर्शनबोधवत्तममलं रत्नत्रयं पावनं, मुक्तिश्रीनगराधिनाथजिनपत्युक्तोपवर्गप्रदः । धर्मः सूक्तिसुधा च चैत्यमखिलंचैत्यालयश्चालयं, प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ॥२।। अर्घ ये पंचौषधिऋद्धयः श्रुततपोवृद्धिं गताः पञ्च ये, ये चाष्टाङ्गमहानिमित्तकुशलाश्चाष्टी विधाश्चारिणः । पंचज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धि ऋद्धीश्वगः, सप्तैते सकलाश्च ते मुनिवराः कुर्वन्तु ते मंगलम् ॥३॥ अर्घ ज्योतिर्व्यन्तरभावनामरगृहे मेरौ कुलाद्रौ स्थिताः, जम्बशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्याद्रिषु । इष्वाकारगिरी च कुण्डलनगे द्वीपे च नन्दीश्वरे, शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते मंगलम् ॥४॥ अर्थ कैलाशे वृषभस्य निर्वतिमही वीरस्य पावापुरे, चम्पायां वसुपूज्यसज्जिनपतेः सम्मेदशैलेऽर्हताम् । शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतः, निर्वाणावनयः प्रसिद्धमहिमाः कुर्वन्तु ते मंगलम् ।।शा अर्घ यो गर्भावतरोत्सर्वप्यर्हतां जन्माभिषेकोत्सव, यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञान भाक । या कैवल्यपुरप्रवेशमहिमा सम्पादिता भाविता, कल्याणानि च तानि पञ्च सततं कुर्वन्तु ते मंगलम् ॥६॥ अर्घ जायन्ते जिन-चक्रवर्तिबलभद्-भोगीन्द्रकृष्णादयो,

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47