Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥७४॥
समुपागाच्च, भूपस्तं वन्दितुं मुदा । तदाऽपरेऽपि पुन्नागा, नागराश्च सहस्रशः ॥ २६२ ।। सार्थेशोऽपि तदा सभ्यसार्थेशः स्वप्रियासखः । धर्म शुश्रूषमाणस्तं मुनिराजमुपाश्रयत् ।। २६३ ॥ सूरसूर्योऽपि भव्याब्जभासिनीर्जायनाशिनीः । गास्ततान निजाः साधुश्राद्धधर्मार्थदर्शिकाः ।। २६४ ।। ताभिर्विध्वस्तसमोहाः सम्यग् मार्गावबोधतः । भविनो बहुमोदन्त, दिग्व्यामूढा इवाध्वगाः ॥ २६५ ॥ सार्थेोऽपि तदा नष्टतमाः शिष्टतमाशयः । विज्ञो विज्ञपयामासागुरुकर्मो गुरूनिति ॥ २६६ ॥ नाथाद्य यावदात्मानं, तत्त्वज्ञानं विनाऽप्यहम् । विदाञ्चकार वेत्तारमहम्मन्यतया मुधा ।। २६७ ॥ कलाकलिन्दिकापारदृश्वनामपि देहिनाम् । तत्त्वज्ञानं विना ह्यज्ञपदवी न दवीयसी ॥ २६८ ॥ इदानीं तूपदेशैर्वः, सुधारससहोदरैः । हताज्ञानामयैस्तत्त्वज्ञ आनारोग्यमकारि मे ।। २६९ ।। श्रद्दधे सर्वसावद्ययोगत्यागैकलक्षणम् । सर्वोत्तमं साधुधर्मं कर्त्तुं शक्तोऽस्मि नो पुनः ।। २७० ।। ततः सम्यक्त्वसंयुक्तद्वादशव्रतलक्षणम् । स प्रियस्य कृपां कृत्वा, श्राद्धधर्मं प्रदत्त मे ।। २७१ ॥ तेनेत्युक्ताः सूरयोऽपि, श्राद्धधर्मं प्रियायुजे । ददुस्तस्मै सुशिष्याय, भक्तियुक्ताय मन्त्रवत् ॥ २७२ ॥ कृतार्थमानी साथैस्ततोऽगात् सप्रियो गृहम् । धर्मं चाराधयामास, सोऽभीष्टमिव दैवतम् ॥ २७३ ॥ शङ्कादिदोषविकलं शुद्धं सम्यक्त्वमुद्वहन् । व्रतान्यणुव्रतादीनि, निर्दोषाण्यनुपालयन् ।। २७४ ॥ शुद्धैर्वस्त्रान्नपानाद्यैनिर्ग्रन्थान्
श्रीचम्पकमाला
कथा ।
॥७४॥

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268