Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथानकम्।
॥८॥
॥तस्या विज्ञानमूर्वीशोऽपमानमात्मनो विदन् । विवादविस्मयापनः किं कुर्वे इत्यचिन्तयत् ॥ ८५॥ अन्यदातां नृपः कन्यां मार्गयति विवाहितुम् । परमार्थ पृच्छति स्म भीतः श्रेष्ठ्यपि तां सुताम् ॥८६॥ साह हर्षपुरिताङ्गीजनकमीदृशं वचः। विवाहं भूभुजा सार्ध भयं त्यक्त्वा कुरुष्व मे।। ८७॥ विवाहश्चन्द्रलेखाया महोत्सवपुरस्सरम् । राज्ञा दुर्ललितेनाऽमा श्रेष्ठिना निर्ममे ततः॥८८॥ प्रासादेऽभिनवे तां च स्थापयित्वा नृपोऽवदत् । यद्यपि श्रेष्ठिसूर्धूर्ता तथापि वञ्चिता मया।। ८९ ॥ प्रतिज्ञां श्रृणु मे बाढमारभ्याद्य दिनादहम् ।संलापं नो करिष्यामि विरक्तमानसस्त्वया॥९०॥ साऽप्याह धूर्त ! राजेन्द्र ! प्रतिज्ञां मेऽप्यमूं श्रृणु। अवश्यं तूलिकां खट्वां स्कन्धे ते वाहयामि चेत् ॥ ११ ॥ जेमयाम्यन्त्रमुच्छिष्टं स्वकीयं निजदासवत् । तन्नूनं चन्दनसुता वञ्चनप्रवणा स्माहम् ॥ युग्मम् ॥ ९२॥ तस्या वचोऽग्निना दग्धो राजा गुणवतीमपि। मन्वानो निर्गुणां चित्ते चिक्षेप दुर्भगासु ताम् ॥ ९३ ॥ कुर्वती जिनपूजां सा प्रवरैः कुसुमादिभिः । सौभाग्यकल्पतर्वादितपांसि व्यघादादरम् ॥ ९४॥ यतः-यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् । तत् सर्व तपसा साम्यं तपो हि दुरतिक्रमम् ॥१५॥नश्यन्ति तपसा रोगाः प्राप्यते तीर्थकृत्पदम् । रूपं सुखं च सौभाग्यं वृद्धिमायाति देहिनाम् ॥ ९६ ॥ आपदो विलयं यान्ति सान्निध्यं कुर्वतेऽमराः । १अमा सह
॥८॥

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268