Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 253
________________ । अहम् ।। ॥श्री शंखेश्वर पार्श्वनाथाय नमः॥ ॥श्री प्रेम-भुवनभानु-पर-हेमचंद्र सद्गुरुभ्यो नमः॥ श्रीजैन कथासंग्रहः ॥श्रीनंदीवेन मुनिचरित्रं॥ ॥अथ श्रीनंदिषेणमुनिचरित्रं प्रारभ्यते॥ ॥१॥ - (कर्ता-श्रीशुभशीलगणी) . कुर्वन्नुग्रं तपो नित्यं । दुष्टं कर्म विनिर्मितं॥जीवो भिनत्ति तत्कालं। नंदिषेणमुनीशवत् ॥१॥ तथाहि-स्वर्गसन्निभं श्रीपुराख्यंपुरमासीत्, तत्र मुखप्रियाख्यो द्विज एको वसतिस्म; अथैकदा निजोदरपूरणाय भिक्षार्थमेको भीमाख्यो दरिद्रपुरुषस्तस्य गृहे समाययौ; तदा स द्विजस्तं भीमं जगौ, चेत्त्वं दासत्वमङ्गीकृत्य मदीयगृहे तिष्ठसि, तदा ते नित्यं भोजनवस्त्रादि दास्यामि, भीमेनोक्तं भो द्विजोत्तम! तव दासत्वमहमङ्गीकरोमि, परं राद्धानशेष सर्वदा मह्यमेव देयं, यथा स्वेच्छयैवाहं तस्य राधानशेषस्योपयोगं करोमि; ततो द्विजेनापि तत्प्रतिपन्नं; अथ स भीमः शुद्धभावेन तस्य द्विजस्य दास्यं

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268