Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 266
________________ श्रीजैन कथासंग्रहः ॥ १४॥ पूर्वकर्मप्राबल्येनेदुगतिसाररोगभागस्ति ! नूनं राज्ञा वा, रकेण वा, साधुना वा, शक्रेण वा कृतं कर्मावश्यं भोक्तव्यमेव, ततः स नंदिषेणस्तं साधुं निजस्कन्धे समारोप्योपाश्रयं प्रति चचाल; अथ स ग्लासाधुः पदे पदे कर्कशशब्दानि जल्पन् तस्य नंदिषेणर्षेः शरीरं दुर्गन्धया विष्ट्या लिम्पति, तथापि नंदिषेणो महामुनिर्मनागपि दुर्गञ्छां न चकार, न च तस्योपरि किचिन्मात्रमपि क्रोधं विहितवान्, त्वरितं चलन्तं तं नंदिषेणं स स्कन्धस्थितो मुनिर्जल्पति, अरे दुष्ट! एवं चलनेन मम प्राणा एव गमिष्यन्ति, अतः शनैश्चल, त्वमभिग्रहीभूय मां कथमेवं पीडयसि ? तत श्रुत्वा यावत्स नंदिषेणो मन्दं मन्दं चलति, तदा स जल्पति, अरे ! एवं मन्दं मन्दं चलनतो मार्गे एव मम मरणं भविष्यति, आराधनां विना च मे दुर्गतिपातो भविष्यति; एवंविधान् तस्याऽऽक्रोशान् सहमानो नंदिषेणमुनिस्तथाभूतं तं साधुं कथञ्चिदुपाश्रये समानीय चिन्तयामास, अरे रे ! अयं महात्मा साधुर्मया कथं नीरोगः कर्तव्यः ? एवं चिन्तयन् स निजाऽऽत्मानं निन्दति स्म; अथैवं साधुवैयावृत्त्यकरणे तं मेरुमिव निश्चलं मत्वा स देवः प्रत्यक्षीभूय विष्टादि तत्सर्व संहत्य तन्मस्तकोपरि पुष्पवृष्टिं चकार कथयामास च भो नंदिषेणमुने ! त्वं नूनं धन्यः कृतपुण्यश्चासि, यादृशो देवसभामध्ये त्वं शक्रेण वर्णितस्ततोऽप्यधिकोऽसि एवं तं मुनिं स्तुत्वा नत्वा निजापराधं च क्षमयित्वा स देवो देवलोके ययौ, एवं स नंदिषेणो महामुनिर्द्वादशसहस्रा ॥ श्रीनंदीवेण मुनिचरित्रं ॥ ॥ १४॥

Loading...

Page Navigation
1 ... 264 265 266 267 268