Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 234
________________ श्रीजैन कथासंग्रहः श्रीचनालेखा कथानकम्। गौरवम्॥५८॥ अन्यदा तेजदेशात् सा विज्ञप्य पितरं निजम् । आनाययद्धरिहयवाजिविभ्राजिवाजिनः ॥ ५९॥ तरुच्छायासु बद्धास्ते पुरसीम्नि सरित्तटे । कस्य नो हरते चेतः सुरेन्द्रतुरगा इव ॥ ६॥ वीक्षाचक्रे क्षमानाथः कौतुकाकुलितोऽन्यदा। स तानपास्तमनस्तायसमीरणस्मयान् हयान् ॥ ६१॥ अतुल्येनाऽपि मूल्येन मार्गितांस्तान् महीभुजा । पुत्र्या निवारितः श्रेष्ठी ददे तानो कथञ्चन ॥ ६२॥ अदानिजकिशोरान् स तनयावचसाऽन्यदा। तुरगीणां गर्भकृते नृपेणात्यर्थमर्थितः ॥६३॥ सञ्चारिताः किशोरास्ते प्रत्यब्दं वडवासु च । पञ्चवर्षाणि यावत् तत् सञ्जाता बहवो हयाः ॥ ६४ ॥ अथाख्यच्चन्द्रलेखा स्वं पितरं मे किशोरकैः । सञ्जातास्तुरगा राज्ञो लाहि तानखिलानपि ॥६५॥ रुष्टस्त्वां किमपि ब्रूयाद् यदा पृथ्वीपतिः पित: !| निःसङ्कोचं तदा वाच्यं रहस्यं वेत्ति मे सुता॥६६॥ ततो निजावसञ्जाता वाजिनस्तनयागिरा । पयः पातुमुपेतास्ते सत्वरं श्रेष्ठिना हृताः ॥ ६७ ॥ श्रेष्ठिभटत्रासिताश्चपालोक्त्या वसुधाधिपः । रुष्टः श्रेष्ठिनमाहूयाऽवग् मे किं वाजिनो हृताः ?॥६८॥श्रेष्ठ्यांह नैवजानामि रहस्यं किमपि प्रभो! विज्ञा कन्या मम स्वामिन्नुत्तरमस्य दास्यति॥ ६९॥प्रेष्याश्चर्यात् प्रतीहारं सत्वरं धरणीधवः । सभायां भूरिलोकायामानयत् श्रेष्ठिनन्दिनीम् ॥७॥ भूरिपरिजनोपेता सहिता च सखीजनैः । सुखासनस्था भास्वन्ती विमानस्थेव देवता॥७१॥ कल्पलतेव ॥६॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268