________________
श्रीजैन कथासंग्रहः
श्रीचनालेखा कथानकम्।
गौरवम्॥५८॥ अन्यदा तेजदेशात् सा विज्ञप्य पितरं निजम् । आनाययद्धरिहयवाजिविभ्राजिवाजिनः ॥ ५९॥ तरुच्छायासु बद्धास्ते पुरसीम्नि सरित्तटे । कस्य नो हरते चेतः सुरेन्द्रतुरगा इव ॥ ६॥ वीक्षाचक्रे क्षमानाथः कौतुकाकुलितोऽन्यदा। स तानपास्तमनस्तायसमीरणस्मयान् हयान् ॥ ६१॥ अतुल्येनाऽपि मूल्येन मार्गितांस्तान् महीभुजा । पुत्र्या निवारितः श्रेष्ठी ददे तानो कथञ्चन ॥ ६२॥ अदानिजकिशोरान् स तनयावचसाऽन्यदा। तुरगीणां गर्भकृते नृपेणात्यर्थमर्थितः ॥६३॥ सञ्चारिताः किशोरास्ते प्रत्यब्दं वडवासु च । पञ्चवर्षाणि यावत् तत् सञ्जाता बहवो हयाः ॥ ६४ ॥ अथाख्यच्चन्द्रलेखा स्वं पितरं मे किशोरकैः । सञ्जातास्तुरगा राज्ञो लाहि तानखिलानपि ॥६५॥ रुष्टस्त्वां किमपि ब्रूयाद् यदा पृथ्वीपतिः पित: !| निःसङ्कोचं तदा वाच्यं रहस्यं वेत्ति मे सुता॥६६॥ ततो निजावसञ्जाता वाजिनस्तनयागिरा । पयः पातुमुपेतास्ते सत्वरं श्रेष्ठिना हृताः ॥ ६७ ॥ श्रेष्ठिभटत्रासिताश्चपालोक्त्या वसुधाधिपः । रुष्टः श्रेष्ठिनमाहूयाऽवग् मे किं वाजिनो हृताः ?॥६८॥श्रेष्ठ्यांह नैवजानामि रहस्यं किमपि प्रभो! विज्ञा कन्या मम स्वामिन्नुत्तरमस्य दास्यति॥ ६९॥प्रेष्याश्चर्यात् प्रतीहारं सत्वरं धरणीधवः । सभायां भूरिलोकायामानयत् श्रेष्ठिनन्दिनीम् ॥७॥ भूरिपरिजनोपेता सहिता च सखीजनैः । सुखासनस्था भास्वन्ती विमानस्थेव देवता॥७१॥ कल्पलतेव
॥६॥