________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथानकम्।
॥५॥
.. हि बीजं क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो निर्णयमेव स्वयं चक्रे॥४५॥ श्रुत्वा नृपकृतां ।
नीति मुक्तपुत्रा शुकी तदा। सा तरुच्छिन्नशाखेव पपात पृथिवीतले॥४६ ॥ प्रियां दीनाननां त्यक्त्वा कीरोऽपि निष्ठरस्ततः । पुत्रं गृहीत्वा सानन्दं जगाम मलयाचलम् ॥ ४७ ॥ मन्त्रिप्रयुक्तशीतोपचारः सम्प्राप्तचेतना। दृष्टा लोकैः सशोकैः सा दीनोड्डिड्ये ततः शुकी॥४८॥ गत्वा शत्रुञ्जयं तीर्थ नत्वा च वृषभं जिनम् । त्यक्त्वा चतुर्विधाहारं भावयन्ती सुभावनाम् ॥ ४९ ॥ स्मरन्ती च नमस्कारमन्त्रं पूतत्रिविष्टपम् । तस्थावनशनं कृत्वाऽऽलोच्य पापानि शुद्धधीः ॥५०॥ न गृहं स्वजना नैव न भर्ता नाङ्गजोऽपि च । संसारेऽत्र शरण्यं मे मुक्त्वैकं जिनशासनम् ॥५१॥ सैषा भवविरक्तापि चित्ते दुर्ललितं नृपम् । ध्यायन्ती विधिना त्यक्तप्राणा मध्यमभावना ॥५२॥ काञ्चीपुर्या समुत्पन्ना चन्दनश्रेष्ठिनो गृहे। बहुपुत्रोपरिजातापित्रोरतीववल्लभा॥५३॥ द्वितीयाचन्द्रलेखेव चन्द्रलेखाभिधानतः। क्रमेण वृद्धिमापत् सा जनानन्दप्रदायिनी ॥ ५४ ॥ पूर्वभवाभ्यासवशाजैनधर्मरताऽभवत् । उत्पन्नजातिस्मरणा कीरीभवमलोकयत् ॥ ५५॥ विधत्ते जिनधर्म सा सम्यग्दर्शनसुन्दरम् । आर्याणां सेवयाधीते शास्त्राणि गणयन्त्यपि॥५६॥ कर्मप्रकृत्यादिबहुग्रन्थेषु चाहतेषु सा। कौशलं परमं प्राप्य विदुषामग्रिमाञ्जनि॥ ५७॥ सर्वत्र पृच्छनीयाऽभूद् गार्हस्थ्यधर्मकर्मणोः । चित्रं किमत्र सन्दोहो गुणानां याति
॥५॥