SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्त्रलेखा कथानकम्। ॥४॥ जीयाल्यायमार्गनभोरविः॥३१॥व्याहरत् कीरयुग्मं तत् कौतुकाउकुलितो नृपः। एहि मे पार्श्वमात्मीयं कार्यमार्य ! निवेदय ॥ ३२ ॥ विवादे कथिते ताभ्यां मन्त्र्यास्यमीक्षते नृपः । सोऽप्याख्यदनयोर्दास्ये मध्याह्ने झुत्तरं स्फुटम् ।। ३३ ॥ साश्चर्यनृपतिर्नीत्वा करीयुग्मं निजं गृहम् । यथेच्छं भोजयामास स कूरदाडिमादिभिः॥३४॥ स्थिते सदसि मध्याह्राज्ञि मन्त्रिजनोऽवदत् । अपूर्वोऽश्रुतपूर्वश्च विवाद एष कीरयोः ॥ ३५॥ विचारयन्तोऽपि चिरं पारं नास्य गता वयम् । कमपि ज्ञानिनं ह्येतौ तद् गत्वान्यत्र पृच्छताम् ॥ ३६ ॥ ततो रोषारुणो राजा धीगर्वपर्वतस्थितः अतर्जयन्मन्त्रिवर्ग धिग् धिग् वो वैभवं धियाम्॥३७॥ दैवाद विवादो योषोऽनिश्चित: कीरयोरितः । यात्यन्यत्र युगान्तं मेलजा तर्जातिदुःसहा ॥३८॥ कियन्मात्रो विवादोऽयं यद्वा बुद्धिमतां पुरः। श्रवणे प्रवणीकृत्य तस्माच्छृणुत मे वचः॥३९॥ लोके प्रसिद्धमेवैतद् बीजं बीजपतेर्भवेत् । क्षेत्रं क्षेत्राधिपस्येव पितुः पुत्रः सुनिश्चितम् ॥ ४०॥ शरीरक्षेत्रमादाय कीरी यातु यथेप्सितम् । बहीव मेघनिर्घोषं स श्रुत्वेत्यदधान्मुदम् ॥ ४१॥ कीरी विषण्णचित्तावग् नीतिनैतादृशी नृप!। शास्त्रार्थप्रतिकूला ते कर्तुं युक्ता विवेकिनः॥४२॥ राजन्नमुं पञ्चकुले न्यायमार्ग प्रकाशितम् । वह्या लेखय नायाति येन ते विस्मृतेः पथम् ॥४३॥ तदा मानेन मन्वानोऽवितथं निजभाषितम् । अलेखयन्नृपो वह्याममात्येभ्यस्तथैव तत्॥४४॥ तथाहि-बीजिन एव ॥४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy