________________
0
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कवाचकम्।
॥३॥
साथ दृष्ट्वा निजं पतिम् । जजल्पार्पय पुत्रं मेऽमन्दानन्दप्रदायिनम् ॥१८॥ उक्तं च-सर्वभङ्गया भवत्येव खीणां तावत् प्रियः प्रियः । पुत्रस्तद्विरहितानां तासामाश्वासकः स्मृतः ॥ १९ ॥ अहं संसारदुःखेभ्यो निर्विग्णाथ शिवाप्तये। आत्मानं साधयिष्यामितीयं गत्वा च कुत्रचित् ॥ २०॥ एष पुत्रः संस्थितो मे पावें संलेषणादिषु । सद्धर्मवारिषेकेण मोहतापं हरिष्यति ॥ २१॥ धर्मध्यानप्रवहणं मुक्तं निर्यामकेण हि। अवसानकालवादि: पारं प्राप्नोति नाङ्गिनाम्॥२२॥ कीरोऽपि तद्वचः श्रुत्वा वहिनेव ज्वलन् क्रुधा। जूचे पुत्रं मार्गयन्ती जाता नो खण्डशः कथम् ? ॥ २३ ॥ पितुरेवाऽऽभवं पुत्रः स्यात् क्षेत्रक्षिप्तबीजवत् ॥ साऽऽख्यत् पुत्रो मातुरेव तां विना न भवेत् सुतः॥२४॥ उक्तं च-उपाध्यायदशाचार्य आचार्याणां शतं पिता। सहसं तु पितुर्माता गौरवेणातिरिच्यते॥२५॥ एवं तत्पुत्रसंयुक्तं विवदन्मिथुनं मिथः । काञ्चीपुर्या बयौ तस्य निर्णयार्थ नमोऽध्वना ॥ २६ ॥ तत्रास्ति द्विइमावेण्याकर्षदुर्ललितो बली। भूपो दुर्ललितो नाम गतं तस्य सभोपरि ॥ २७॥ कीरः खेचरसंसर्गा-निर्भयो नभसि स्थितः । प्रथमं तं वर्णयति निजबुया नराधिपम् ॥ २८॥ नन्दतात् स नृपो यस्य वीक्ष्य सारस्वतं रसम् । गत्वा पातालममृतं निलीयाद्यापि तिष्ठति ॥ २९ ॥ कीरः पुनदक्षिणाधिमुत्पाद्य वसुधाधवम् । नत्वा भक्त्या सुललितवाभिरेवमवर्णयत् ॥ ३०॥ मुखाब्जे राजहंसीव यस्य वाग्देवता स्थिता। सत्यसन्धः स राइ
॥३॥