________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथानकम्।
॥२॥
सम्यक्त्वं ग्राह्यमकिमिः । यतः सिट्यन्ति चारित्रहीना नो दर्शनोज्झिताः॥५॥ यतः- सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परो हि बन्धुः । सम्यक्त्वमित्रान परं हि मित्रं, सम्यक्त्वलाभान्न परो हि लाभः ॥६॥ (योग. प्र. श्लो.) सम्यक्त्वं निश्चलात्मा यः कष्टेऽप्युज्झति नो नरः । चन्द्रलेखेव परमां सोऽश्नुते सुखसम्पदम्॥७॥ तथाहि-जम्बूद्वीपस्य भरते विद्यते मलयाचलः। सुरभीकुर्वते यत्र दिगन्तं चन्दनद्रुमाः॥८॥ तत्रास्ति वटवृक्षस्योपरि प्रीतिपरायणम् । अन्योन्यं कीरमिथुनं तमालकोमलच्छवि ॥९॥ कौतूहलेन मिथुनं केनापि खेचरेण तत् । दृष्ट्वाऽऽयातेन चादाय नीतं स्वकीयवेश्मनि ॥१०॥ सौवर्णे पञ्जरे क्षिप्त्वा पाठयत्यखिलाः कलाः । षड्दर्शनानां तत्त्वानि सूक्तानि विविधानि च॥११॥खेचरो मिथुनं नित्यं तल्लात्वा भ्रमति क्षितौ। तद्विरहे पुनः सर्व स शून्यं मन्यते जगत् ॥१२॥ खेचरं प्रतिबोध्या मोचितं चारणर्षिणा । विललास यथेच्छ तत् तत्रैव मलयाचले ॥ १३ ॥ तयोः क्रमेण जातस्तत् प्रतिरूपस्तनूर्भवः । कलाकलापं सकलं सोऽपि ताभ्यां च शिक्षितः॥१४॥ युग्मस्य प्रीतिभाजोऽपि तस्य दैवात् कदापि हि। अतीव कलहो जज्ञे धिग् धिक् चेतांसि कामिनाम् ॥ १५॥ शुकेन निर्भप्रेम्णा ततस्तेन क्रुधा द्रुतम् । तारुण्यपुण्यसर्वाङ्गी समानीता परा शुकी ॥ १६ ॥ चाटु . वाग्भिर्मानयति वराकीतंशुकी ततः। नव्यासक्तमनाः पापस्तथापि नैव मन्यते॥१७॥ प्रणष्टप्रेमसम्भारं
॥२॥