Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 240
________________ श्रीजैन कथासंग्रहः ॥१२॥ ......ee ❤ प्रतिहारदत्तमार्गा प्राप्ता सा राजसंसदि ॥ १३७ ॥ तां सिद्धयोगिनीमिव दृष्ट्वा सविस्मयः । न्यवेशयदासने तल्लब्धाशी: प्रणयान्वितः ॥ १३८ ॥ सा प्राऽऽह मनोऽभीष्टार्थसिद्धिं च सिद्धिं निर्वाणकारिणीम् । महासिद्धिं महीनाथ ! यो योगः स तनोतु वः ॥ १३९ ॥ नृपः प्राह कृताऽर्थाः स्म दर्शनेनाऽपि ते वयम् । तथाऽपि किञ्चित् पृच्छामि दूरं किञ्चिन्न योगिनाम् ॥ १४० ॥ साऽख्यद् राजन्निहानेतुं शक्ता स्वर्गात् शचीपतिम् । सूर्य गिलाम्यात्मशक्त्या राहुरिवेन्दुमप्यहम् ।। १४१ ।। कार्यं किमपि नैवास्ति छन्नमाविर्जगत्त्रये । करोति कारयति वा प्रत्यक्षं मेऽखिलं हि तत् ।। १४२ ।। भविष्यत्यनया कार्य योगिन्येति विचारयन् । सच्चक्रे भवनं नीत्वा राजा तामशनादिभिः ॥ १४३ ॥ यामिनीसमये जाते श्रुत्वा सङ्गीतमद्भुतम् । राजाऽवग् निजशक्त्या मां प्रत्यक्षं दर्शयैतकत् ।। १४४ ॥ साऽऽह राजन्नेतदपि प्रत्यक्षं दर्शयामि ते । परं नेत्रद्वये तेऽरं' भन्त्स्यामि पट्टकत्रयम् ।। १४५ ।। स्वशक्त्या पूर्वमूर्वीश ! दिव्यं देहं विधाय ते । पश्चान्नेष्ये दिव्यधाम्नि प्रवेशस्तत्र नान्यथा ॥ १४६ ॥ राज्ञाऽप्यङ्गीकृते वाक्ये प्रातः संस्थाप्य मण्डले । नरनाथं दिव्यकरमन्त्रमुच्चरति स्म सा ।। १४७ ।। रजनीसमये जाते प्रतिषेध्य जनागमम् । पट्टत्रयं स्म बध्नाति नेत्रयोः सा नरेशितुः ॥ १४८ ॥ चन्द्रलेखालये पूर्वं पश्चाच्च श्रेष्ठिनो गृहे । ततो १ अरम् = जल्दी O O O O W श्रीचन्द्रलेखा कथानकम् । ॥१२॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268