________________
श्रीजैन कथासंग्रहः
॥१२॥
......ee
❤
प्रतिहारदत्तमार्गा प्राप्ता सा राजसंसदि ॥ १३७ ॥ तां सिद्धयोगिनीमिव दृष्ट्वा सविस्मयः । न्यवेशयदासने तल्लब्धाशी: प्रणयान्वितः ॥ १३८ ॥ सा प्राऽऽह मनोऽभीष्टार्थसिद्धिं च सिद्धिं निर्वाणकारिणीम् । महासिद्धिं महीनाथ ! यो योगः स तनोतु वः ॥ १३९ ॥ नृपः प्राह कृताऽर्थाः स्म दर्शनेनाऽपि ते वयम् । तथाऽपि किञ्चित् पृच्छामि दूरं किञ्चिन्न योगिनाम् ॥ १४० ॥ साऽख्यद् राजन्निहानेतुं शक्ता स्वर्गात् शचीपतिम् । सूर्य गिलाम्यात्मशक्त्या राहुरिवेन्दुमप्यहम् ।। १४१ ।। कार्यं किमपि नैवास्ति छन्नमाविर्जगत्त्रये । करोति कारयति वा प्रत्यक्षं मेऽखिलं हि तत् ।। १४२ ।। भविष्यत्यनया कार्य योगिन्येति विचारयन् । सच्चक्रे भवनं नीत्वा राजा तामशनादिभिः ॥ १४३ ॥ यामिनीसमये जाते श्रुत्वा सङ्गीतमद्भुतम् । राजाऽवग् निजशक्त्या मां प्रत्यक्षं दर्शयैतकत् ।। १४४ ॥ साऽऽह राजन्नेतदपि प्रत्यक्षं दर्शयामि ते । परं नेत्रद्वये तेऽरं' भन्त्स्यामि पट्टकत्रयम् ।। १४५ ।। स्वशक्त्या पूर्वमूर्वीश ! दिव्यं देहं विधाय ते । पश्चान्नेष्ये दिव्यधाम्नि प्रवेशस्तत्र नान्यथा ॥ १४६ ॥ राज्ञाऽप्यङ्गीकृते वाक्ये प्रातः संस्थाप्य मण्डले । नरनाथं दिव्यकरमन्त्रमुच्चरति स्म सा ।। १४७ ।। रजनीसमये जाते प्रतिषेध्य जनागमम् । पट्टत्रयं स्म बध्नाति नेत्रयोः सा नरेशितुः ॥ १४८ ॥ चन्द्रलेखालये पूर्वं पश्चाच्च श्रेष्ठिनो गृहे । ततो १ अरम् = जल्दी
O
O
O
O
W
श्रीचन्द्रलेखा कथानकम् ।
॥१२॥