SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथानकम्। ॥११॥ - ॥१२३ ॥ विशिष्टं सङ्गीतमिदं सुराणामपि दुर्लभम् । पुरः कस्यापि धन्यस्य जायते श्रोतृसौख्यदम् ॥ १२४ ॥ तच्छूवणमोहितात्मा नृपः परिजनान्वितः । जज्ञे चित्रलिखितवद् रुद्धान्यव्यावृतिः क्षणात् ।। १२५ ॥ नाटकावणध्वंसी क्षणादुच्छलितस्ततः । प्राभातिकतूर्यरवः प्रचण्डो नृपमन्दिरे ॥ १२६ ॥ अत्याश्चर्य दधच्चित्ते तगीतहतहनृपः । राज्यस्यापि न कार्याणि कुरुते दुःखमावहन् ॥ १२७ ॥ ताभिर्लोकमनोहारि पुनरेकदिनान्तरे। प्रेक्षणकं समारब्धमपूर्वतालमालि हि॥१२८॥ ग्रामत्रितयकलितं मूर्च्छनाभिश्च संयुतम् । मधुरस्वरं प्रसरं तत् सङ्गीतं श्रृणोति राट् ॥ १२९ ।। चित्ते चिन्तयति क्षमापो गीतेन पशवोऽपि हि । वशं यान्ति विदग्धानां मनुष्याणां तु का कथा ? ॥ १३० ॥ भृशं पीयूषसदृशं तत् सङ्गीतरसं पिबन्। प्राभातिकतूर्यरवमश्रृणोद् गरसन्निभम् ॥१३१॥अपृच्छदास्थानगतो निवृत्ते प्रेक्षणक्षणे । राजा सङ्गीतवृत्तान्तं नैमित्तिकमुखान् जनान् ।। १३२ ॥ रहस्यं तस्य नो कोऽपि वेत्ति दूनो नृपस्ततः । कष्टेनातिवाहयति दिनं रात्रीपिपत्सया ॥ १३३ ॥ सम्यग् ज्ञात्वा मनोभावं चन्द्रलेखाऽपि भूभुजः । सङ्केत्य योगिनीमेकां प्राहिणोनृपसन्निधौ ॥१३४ ॥ मणिस्वर्दण्डमण्डितपाणिः सन्मणिपादुका । वेत्रमयतलपट्टत्छिन्नार्याजी जरत्पटा ॥ १३५ ॥ मुक्ताफलजपमाला सौवर्णयोगपट्टिका । मणिकुण्डलमण्डितगल्ला मूर्तेव शारदा ॥ १३६ ॥ रत्नपात्रोद्भासिहस्ता रूपापास्तसुराङ्गना। ॥१ ॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy