SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथानकम्। ॥८॥ ॥तस्या विज्ञानमूर्वीशोऽपमानमात्मनो विदन् । विवादविस्मयापनः किं कुर्वे इत्यचिन्तयत् ॥ ८५॥ अन्यदातां नृपः कन्यां मार्गयति विवाहितुम् । परमार्थ पृच्छति स्म भीतः श्रेष्ठ्यपि तां सुताम् ॥८६॥ साह हर्षपुरिताङ्गीजनकमीदृशं वचः। विवाहं भूभुजा सार्ध भयं त्यक्त्वा कुरुष्व मे।। ८७॥ विवाहश्चन्द्रलेखाया महोत्सवपुरस्सरम् । राज्ञा दुर्ललितेनाऽमा श्रेष्ठिना निर्ममे ततः॥८८॥ प्रासादेऽभिनवे तां च स्थापयित्वा नृपोऽवदत् । यद्यपि श्रेष्ठिसूर्धूर्ता तथापि वञ्चिता मया।। ८९ ॥ प्रतिज्ञां श्रृणु मे बाढमारभ्याद्य दिनादहम् ।संलापं नो करिष्यामि विरक्तमानसस्त्वया॥९०॥ साऽप्याह धूर्त ! राजेन्द्र ! प्रतिज्ञां मेऽप्यमूं श्रृणु। अवश्यं तूलिकां खट्वां स्कन्धे ते वाहयामि चेत् ॥ ११ ॥ जेमयाम्यन्त्रमुच्छिष्टं स्वकीयं निजदासवत् । तन्नूनं चन्दनसुता वञ्चनप्रवणा स्माहम् ॥ युग्मम् ॥ ९२॥ तस्या वचोऽग्निना दग्धो राजा गुणवतीमपि। मन्वानो निर्गुणां चित्ते चिक्षेप दुर्भगासु ताम् ॥ ९३ ॥ कुर्वती जिनपूजां सा प्रवरैः कुसुमादिभिः । सौभाग्यकल्पतर्वादितपांसि व्यघादादरम् ॥ ९४॥ यतः-यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् । तत् सर्व तपसा साम्यं तपो हि दुरतिक्रमम् ॥१५॥नश्यन्ति तपसा रोगाः प्राप्यते तीर्थकृत्पदम् । रूपं सुखं च सौभाग्यं वृद्धिमायाति देहिनाम् ॥ ९६ ॥ आपदो विलयं यान्ति सान्निध्यं कुर्वतेऽमराः । १अमा सह ॥८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy