________________
श्रीजैन
कथासंग्रहः
11811
७
●
O
उत्पद्यन्तेऽष्टाविंशतिर्लब्धयस्तपसाङ्गिनाम् ।। ९७ ।। निकाचितानि कर्माणि क्षीयन्ते तपसा क्षणात् । दहनेनेव काष्ठानि पयोदा इव वायुना ।। ९८ ।। किं बहूक्तेन तपसा मनुष्यामरसम्पदः । लुठन्ति चरणाम्भोजे मुक्तिस्त्री च स्वयंवरा ।। ९९ ।। राजानमन्यदाऽऽपृच्छ्य तपउद्यापनाकृते । तपः शोषितसर्वाङ्गी प्राप्ता सा सदनं पितुः ॥ १०० ।। दृष्ट्वातिकृशदेहां तां श्रेष्ठी स्वाङ्गे निवेश्य च । व्यलपत् किमु वत्से ! हाऽक्षेप्यात्मा व्यसनोदधौ ॥ १०१ ॥ कथमपि विवाहं ते कारयाम्यमुना नहि । यद्वा दैवकृतं कार्यं बलात् केन निवार्यते ? ॥ १०२ ॥ रामो राज्यात् परिभ्रष्टः पाण्डवास्तु वनं गताः । मृतः कृष्णस्तृषाक्रान्तः श्रेणिको नरकं ययौ ।। १०३ ।। विहृतश्च निराहारो वर्षं यावद् वृषध्वजः । शिष्यः श्रीनेमिनाथस्य ढण्ढणोऽपि महामुनिः ॥ १०४ ॥ श्रीगजसुकुमालस्याङ्गारा धृताश्च मस्तके । छल्लिर्निराकृता देहात् स्कन्धकस्य महात्मनः ।। १०५ ॥ कर्णयोः कीलकक्षेपो महावीरजिनेशितुः । कुले नीचे समुत्पत्तिरेता दैवविडम्बना: ॥ १०६ ॥ प्रतिषेध्य पितुर्वाचं निर्मायोद्यमनक्रियाम् । जिनसङ्क्रमाम्भोजं विधिपूर्वमपूजयत् ।। १०७ ॥ विषण्णहृदयं तातं निवार्याचीकथत् ततः । पञ्चाशद् देहि मे कन्याः कलाकलापशालिनी: ॥ १०८ ॥ त्वद्गृहान्मे गृहं यावत् सुरङ्गां कारयैककाम् । पुरद्वारनिवासिन्या देव्या वासगृहात् पराम् ॥ १०९ ।। एकां मत्सदनस्याधः सुरङ्गायां जिनालयम् । कारयित्वा ततस्तातो निश्चिन्तीभूय तिष्ठतु ॥ ११०॥
•
O
O
0
श्रीचन्द्रलेखा कथानकम् ।
॥९॥