Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥७५॥
प्रतिलाभयन् । श्रमणोपासकेष्वाप, प्रथमत्वं स शिष्टधीः ।। २७५ ॥ युग्मम् ।। सती चम्पकमालाऽपि, शीलसौरभशालिनी । अणुव्रतादिसद्गुणैरालीढा शुशुभेऽधिकम् ॥ २७६ ॥ स्वतोऽप्युदारोदारोक्त्या नोदितश्च प्रमोदवान् । धर्मस्थानेषु सार्थेशः, स्वमर्थ सोऽकृतार्थयत् ॥ २७७ ॥ न्यास्थन्नव्यानि चैत्यानि, पुराणान्युद्दधार च । भूरिवित्तव्ययैरहदाश्च प्रत्यतिष्ठिपत् ॥ २७८ ॥ जैनोपयोगिशास्त्राणां, पुस्तकान्यप्यलीलिखत् । चतुर्विधस्य सङ्घस्य, भक्तिं च विविधां व्यधात् ॥ २७९।। कृततज्जीवनोपायो, धीवरादींश्च धीवरः । न्यवर्त्तयज्जीववधाद्दीनादीनुद्दधार च ॥ २८० ॥ सङ्घाधिपत्यतिलकमालिके दधदुत्तमम् । शत्रुञ्जयोज्जयन्ताद्रिमुख्यतीर्थानि सोऽनमत् ।। २८१ ॥ इत्थं तौ दम्पती शुद्धं, श्राद्धधर्म समाश्रितौ ॥ यथाशक्ति जिनाधीशशासनोद्योतनोद्यतौ ॥ २८२ ॥ यथावत् पालयन्ती चाभिगृहीतानभिग्रहान् । आनन्दशिवनन्दादिदाम्पत्यौपम्यमापतुः ॥ २८३ ॥ युग्मम् ॥ समाधिमृत्युमासाद्य, प्रान्तेऽप्यनशनादिना । सुगति तौ गतौ सा हि, सुप्रापा जिनसेविनाम् ।। २८४॥
इत्थं चम्पकमालया सुविमलं शीलं दधत्या दृढं, लेभेत्रापि महान् प्रभावविभव: प्रेत्यापि शर्मोत्तमम्।
॥५॥

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268