SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥७४॥ समुपागाच्च, भूपस्तं वन्दितुं मुदा । तदाऽपरेऽपि पुन्नागा, नागराश्च सहस्रशः ॥ २६२ ।। सार्थेशोऽपि तदा सभ्यसार्थेशः स्वप्रियासखः । धर्म शुश्रूषमाणस्तं मुनिराजमुपाश्रयत् ।। २६३ ॥ सूरसूर्योऽपि भव्याब्जभासिनीर्जायनाशिनीः । गास्ततान निजाः साधुश्राद्धधर्मार्थदर्शिकाः ।। २६४ ।। ताभिर्विध्वस्तसमोहाः सम्यग् मार्गावबोधतः । भविनो बहुमोदन्त, दिग्व्यामूढा इवाध्वगाः ॥ २६५ ॥ सार्थेोऽपि तदा नष्टतमाः शिष्टतमाशयः । विज्ञो विज्ञपयामासागुरुकर्मो गुरूनिति ॥ २६६ ॥ नाथाद्य यावदात्मानं, तत्त्वज्ञानं विनाऽप्यहम् । विदाञ्चकार वेत्तारमहम्मन्यतया मुधा ।। २६७ ॥ कलाकलिन्दिकापारदृश्वनामपि देहिनाम् । तत्त्वज्ञानं विना ह्यज्ञपदवी न दवीयसी ॥ २६८ ॥ इदानीं तूपदेशैर्वः, सुधारससहोदरैः । हताज्ञानामयैस्तत्त्वज्ञ आनारोग्यमकारि मे ।। २६९ ।। श्रद्दधे सर्वसावद्ययोगत्यागैकलक्षणम् । सर्वोत्तमं साधुधर्मं कर्त्तुं शक्तोऽस्मि नो पुनः ।। २७० ।। ततः सम्यक्त्वसंयुक्तद्वादशव्रतलक्षणम् । स प्रियस्य कृपां कृत्वा, श्राद्धधर्मं प्रदत्त मे ।। २७१ ॥ तेनेत्युक्ताः सूरयोऽपि, श्राद्धधर्मं प्रियायुजे । ददुस्तस्मै सुशिष्याय, भक्तियुक्ताय मन्त्रवत् ॥ २७२ ॥ कृतार्थमानी साथैस्ततोऽगात् सप्रियो गृहम् । धर्मं चाराधयामास, सोऽभीष्टमिव दैवतम् ॥ २७३ ॥ शङ्कादिदोषविकलं शुद्धं सम्यक्त्वमुद्वहन् । व्रतान्यणुव्रतादीनि, निर्दोषाण्यनुपालयन् ।। २७४ ॥ शुद्धैर्वस्त्रान्नपानाद्यैनिर्ग्रन्थान् श्रीचम्पकमाला कथा । ॥७४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy