SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥७३॥ . सुमनोमनो मोदयतानिरम् ॥ २४९ ॥ इत्थं विक्रमराजेन, तत्समाजेन चोच्चकैः । प्राशंसि सा सती को वा, प्रशंसां नाश्नुते गुणैः ? ॥ २५०॥ परीक्षया तया बुद्धिमतीषु च सतीषु च । प्रथमां प्रथमानश्रीरेषा रेखां सती ययौ॥२५१॥ ततः प्रभृति वृद्धिं तत्, प्रभाव: सर्वतो दधौ। लोकोपकारं चक्रे च, सा सुधेव स्थिता विधौ ॥ २५२ ॥ ततः क्रमादुज्जयिनी, जगाम जगतीपतिः । इभ्यान्वितः काम इव, वर्ती माधवसंयुत': ॥२५३ ॥ वेदसङ्ख्याः सनिर्वेदास्ततस्ते धीसखा अपि । तां स्वागः क्षमयामासुर्गताः सङ्गत्य तद्गृहे ॥ २५४ ॥ पूर्वोपात्तं प्रतिददी, तद्धनं साऽप्यतद्धना' । न ह्यङ्गिनो विमुह्यन्ति, जातु न्यायाध्वनोऽध्वगाः ।। २५५ ॥ गिरा सुधाकिरा धर्मोपदेशं च तथा ददौ । परस्त्रीसङ्गनियम, यथा तेऽपि प्रपेदिरे ॥ २५६ ॥ अहो ! महीयान् महिमा, महासत्या महामतेः । विशिष्टां शिष्टतां भेजुरनार्या अपि येन ते॥२५७॥ ततः प्रणम्य ते गोत्रदेवतामिव तां मुहुः । स्मरन्तस्तद्गुणान् जग्मुः, स्वस्थानं स्वस्थमानसाः ॥२५८॥ तस्याः प्रियोऽपि तत्सङ्गात्, प्रतिपेदे सुशीलताम् । सत्सङ्गः खल्वनाचारपारावारस्य कुम्भभूः ॥२५९॥ तस्यां च पुर्यामन्येचुर्भव्यचक्रसुखाकरः। विहरनाययौ श्रीमान्, सिद्धसेनदिवाकरः ॥ २६०॥ तं च सूरीन्द्रमायातं, ज्ञात्वा केकीव वारिदम् । रोमहर्षप्रकर्षानुमेयां प्राप मुदं नृपः ॥ २६१ ॥ महर्दया १ समतः इत्यपि। २ अकृपणा। ॥७३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy