Book Title: Jain Dharm Prakash 1918 Pustak 034 Ank 04 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦૧ જળમંદિરમાં સાત્વિક કલોલ. त्वयावधीरितो नाथ ! मीनवज्जलवजिते. निराशो दैन्यमालम्ब्य म्रियेऽहं जगतीतले । ॥१३॥ स्वसंवेदनसिद्धं मे निश्चले त्वयि मानसम्: साक्षाभूतान्यभावस्य यद्वा किं ते निवेद्यताम् । १४ ॥ मचित्तं पद्मवन्नाथ ! दृष्टे भुवनभास्करे; स्वयीह विकसत्येव विदलत्कर्मकोशकम् । ॥१५ ।। अनन्तजन्तुसन्तानव्यापाराक्षणिकस्य ते; ममोपरि जगन्नाथ !'न जाने कीदृशी दया। ॥ १६ ॥ समुन्नते जगन्नाथ ! त्वयि सद्धर्मनीरदे; नृत्यत्येप मयूराभो मदोर्दण्डशिखण्डिकः । ॥१७॥ तदस्य किर्मियं भक्तिः किमुन्मादोऽयमीदृशः; दीयतां वचनं नाथ ! कृपया मे निवेद्यताम् । ॥१८॥ मञ्जरीराजिते नाथ ! सचूते कल कोकिला; . यथा दृष्टे भवत्येव लसत्कलकलाकुलः। ॥१९ ।। तथैप सरसानन्दबिन्दुसन्दोहदायक; त्वयि दृष्टे भवत्येव मूर्योऽपि मुखरो जनः । ॥२०॥ तदेनं मावमन्येथा नाथासंबद्धभाषिणम् मत्वा जनं जगज्ज्येष्ठ ! सन्तो हि नतवत्सलाः। ॥२१॥ किं वालोऽलीकवाचाल आलजालं लपन्नापि; न जायते जगनाथ ! पितुरानन्दवर्धनः। ॥२२॥ तपाश्लीलाक्षरोलापजल्पागोऽयं जनस्तवः . किं विवर्धयते नाथ ! तोपं कि नेति कथ्यताम् । ॥२३॥ अनायभ्यासयोगेन विषयाशुचिर्दय गते सूकरसंकाशं याति मे चदुलं मनः। ॥२४॥ न चाहं नाथ ! शक्नोमि तनिवारयितुं चलम्। अतः प्रसीद तद्देव ! देव ! वारथ वारय । ॥२५ ॥ किं ममापि विकल्पोऽस्ति नाथ ! तावकशाशने; गनै लपतोऽधीश ! गोचरं मम दीयते । ॥२६॥ For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26