Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 24
________________ ॥ ॐ ह्रीँ अहँ श्रीशङ्केश्वरपार्श्वनाथाय नमः॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीगुरुभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीगुरुभ्यो नमः। सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । प्राक्कथनम् ___भगवतो गुरुदेवस्य प्रेरणा जैनशासनवादिप्रभावकाचार्यश्रीमल्लवादिक्षमाश्रमणविरचितस्य श्रीसिंहमूरिगणिवादिक्षमाश्रमणविरचितवृत्त्या समलङ्कृतस्य द्वादशारस्य नयनचक्रमहाशास्त्रस्यारचतुष्टयात्मकं प्रथमं विभागं विदुषां पुरतः प्रकटयन्तो वयमद्यापूर्वमानन्दमनुभवामः । विक्रमसंवत् २००१ वर्षे शहापुरग्रामे [ जिल्ला 'ठाणा' मध्ये ] वयं चतुर्मासी स्थितास्तदा कञ्चिदागमग्रन्थं सम्पादयितुमस्माकं मनसि विचारः प्रादुर्भूतः । तदानीं च अनेकप्राचीनग्रन्थसङ्ग्रहव्यवस्थापने सिद्धहस्तैः प्राचीन ग्रन्थसंशोधने चोत्कटं खारस्यं समुद्वहद्भिर्मुनिराजश्रीपुण्य विजयजीमहोदयैरद्यतनशैल्या सम्पाद्य जैनागमग्रन्थान् प्रकाशयितुं 'जैनागमप्रकाशिनी संसद्' इत्यभिधा एका संस्था पत्तननगरे स्थापिताऽऽसीत् । अतो मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तिसमेतस्य सैद्धान्तिकप्रवरश्रीजिनभद्रगणिक्षमाश्रमणविरचितविशेषावश्यकमहाभाष्यस्य दुर्लभत्वमुपयोगित्वं च विभाव्य भगवतां गुरुदेवानां पूज्यपादमुनिराजश्री१००८ भुवनविजयजीमहाराजानां प्रेरणया तत् सम्पादयितुं मुनिराजश्रीपुण्यविजयजीमहोदयेभ्योऽस्माभिरस्माकं समीहा निवेदिता । तैस्तु एवमुत्तरं लिखितम् ___ 'मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतस्य विशेषावश्यकमहाभाष्यत्य प्रकाशनं तावत् सकृत् सञ्जातमेव । नितान्तमावश्यकता तु नयचक्रप्रकाशनस्य वरीवर्ति । नयचक्रमद्यावधि अमुद्रितम् । किञ्च, मल्लवादिप्रणीतं नयचक्रं तावत् कुत्रचिदपि नैवोपलभ्यते। सिंहमूरिक्षमाश्रमणविरचिता तदीया वृत्तिरेवैका केवलमुपलभ्यते । हस्तलिखितप्रत्यनुसारेण नयचक्रवृत्तेः संशोधनं विधाय, तदनुसारेण नयचक्रमूलं च संकलय्य, अद्यतनशैल्या च साङ्गोपाङ्गं सम्यक् सम्पाद्य सवृत्तिकस्य नयचक्रस्य प्रकाशनं नितान्तमपेक्ष्यते सम्प्रति । यद्यप्येतत् कार्यमतिकठिनं तथापि सर्वथाऽऽवश्यकमुपयोगि चात्यन्तम् । यद्येतत् कार्यं युष्माभिः खीक्रियते तर्हि तत्सम्पादनार्थमुपयुक्तां सर्वां हस्तलिखितग्रन्थादिसामग्री प्रेषयामि। तस्य मुद्रणप्रकाशनादेः सर्वां व्यवस्थामहं विधास्ये । यदि चैतस्मिन् कर्मणि सहायकत्वेन कश्चित् पण्डितोऽपेक्ष्यते तर्हि तमपि प्रेषयिष्यामि।' एवंविधया आग्रहपूर्णया तेषां सूचनया मया सत्वरमेवैतत् कार्य स्वीकृतं प्रत्युत्तरे चाऽऽवेदितं यथा 'पण्डितस्य नापेक्षा, नयचक्रवृत्तेर्हस्तलिखिताः प्रतय एव शीघ्रं प्रेषणीयाः' इति। १ श्रीशंखेश्वरपार्श्वनाथतीर्थे विक्रम संवत् २०१५ वर्षे माघशुक्लाष्टम्यां सोमवासरे पूज्यपादानां भगवतां गुरुदेवानां मुनिराजश्रीभुवनविजयजीमहाराजानां वर्गवासः सञ्जातः, तेषां स्वर्गवासात् प्रागेव झींझुवाडाग्रामे तेषां छत्रच्छायायां लिखितं तेषां दृष्ट्या च पवित्रितमिदं प्राक्कथनं प्रायो यथावदेवात्र मुद्रयते ॥ इदं तु ध्येयम्-गुरुदेवानां वर्गवासात् प्रागेवास्य ग्रन्थस्य सप्त अरा मुद्रिताः [पृ० १-५५२]। तदनन्तरमष्टमोऽप्यरो मुद्रितः [५५३-७३७ ] इति तस्याप्युपयोगोऽस्मिन् प्राक्कथने टिप्पणेषु यथायोग विहितोऽस्माभिरिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 662