Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
प्राक्कथनम्
मिथ्यादृष्टिसुरेभ्यो येन तदा सुव्रतप्रभोस्तीर्थम् । मोचितमिह ताथागतमतस्थितेभ्यश्च वादिभ्यः ॥ ८० ॥ श्री वीरवत्सरादथ शताष्टके चतुरशीति [ ८८४ ] संयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तद्व्यन्तरांश्चापि ॥ ८६ ॥
इति प्रभावकचरित्रे विजयसिंहरिप्रबन्धे प्रभाचन्द्रसूरिभिरभिहितत्वाद् वीरनिर्वाण संवत् ८८४ वर्षे [विक्रमसंवत् ४१४ वर्षे ] मल्लवादिसूरीणां विद्यमानत्वमासीदिति निर्णीयते । किञ्च, मलवादि सूरिभिर्नयचक्रे वार्षगण्य व सुरात-भर्तृहरि-वैसुबन्धु-दिनापराभिधदिङ्कागप्रभृतीनां येषां येषां मतानि चर्चितानि परीक्षिता
१ " समस्ततन्त्रार्थविघटनमेवेति किमवशिष्यते वार्षगणे तन्त्रे " पृ० ३२४ पं० १० ॥
२ " इति भर्तृहर्यादिभतम् । वसुरातस्य भर्तृहर्युपाध्यायस्य मतं तु.....” पृ० ५८१। “ एवं तावद् - भर्तृहर्यादिदर्शमयुक्तम् । यत्तु वसुरातो भर्तृहर्युपाध्यायः ” पृ० ५९४ - ५९५ ।
.....
१५
वसुरातो भर्तृहरेर्गुरुरासीदित्येष नयचक्रान्तर्गतो निर्देशोऽन्यतोऽपि समर्थितो भवति । तथाहि - वाक्यपदीयस्य द्वितीयकाण्डे ४९० कारिकायां भर्तृहरिणा स्वगुरोरुखो विहितः, पुण्यराजस्तस्य टीकायां 'गुरु' शब्देन वसुरातस्य ग्रहणं कर्तव्यमिति सूचयति । तथाहि - " पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः । स नीतो बहुशाखत्वं चन्द्राचार्यादिभिः पुनः ॥ २ ॥ ४८९ ॥ पर्वतात् त्रिकूटैक देशवर्तित्रिलिङ्गैकदेशादिति । तत्र ह्युपलतले रावणविरचितो मूलभूत व्याकरणागमस्तिष्टति । केनचिश्च ब्रह्मरक्षसानीय चन्द्राचार्य व सुरात गुरुप्रभृतीनां दत्तः । तैः खलु यथावद् व्याकरणस्य स्वरूपं तत उपलभ्य सतत च शिष्याणां व्याख्याय बहुशाखित्वं नीतो विस्तरं प्रापित इत्यनुश्रूयते । अथ कदाचिद् योगतो विचार्य तत्र भगवता वसुरात - गुरुणा ममायमागमः संज्ञाय वात्सल्यात् प्रणीत इति स्वरचितस्यास्य ग्रन्थस्य गुरुपर्वक्रममभिधातुमाह - ' प्रणीतो गुरुणास्माकमयमा - गमसंग्रहः ॥ २॥ ४९० ॥ पृ० २८५-२८६ । ४८६ कारिकाया वृत्तावपि [पृ० २८४ ] " "न तेनास्मद्गुरोस्तत्रभवतो वसुरातादन्यः कश्चिदिमं भाष्यार्णवमवगाहितुमलमित्युक्तं भवति । " इत्यभिहितं पुण्यराजेन । किश्चान्यत् परमार्थेन चीनभाषायां लिखिते वसुबन्धोजीवनचरिते 'महावैयाकरणेन ब्राह्मणेन वसुरातेन वसुबन्धोरभिधर्मकोशे व्याकरणविषया दोषा उद्भावितास्ते च वसुबन्धुना निरस्ताः' इत्युलेखो दृश्यते । परमार्थं इदं जीवनचरित्रं विक्रमात् ६०५- ६२५ वर्षमध्ये कदाचिदपि चीन भाषायां लिखितवान् । एतच्च चरितं ' तोडू-पो' नामके पत्रे ( July 1904 ) France देशे मुद्रितम् । तदनुसारेण J. Takak suff A Study of Parmartha's Life of Vasubandhu and the Date of Vasubandhu इत्यस्मिन् निबन्धे निम्नलिखितं वर्णनं दृश्यते-
"Vasubandhu and Vasurata-Vasurāta was according to Paramārtha a Brahmin, husband of a sister i. e. brother-in-law of king Bālāditya. He was well-versed in the Grammar treatise. When Vasubandhu composed the Abhidharmakosa; this Brahmin attacked his composition on the authority of the Vyakarana thinking that the Buddhist disputer would certainly defend his own work, when the grammatical faults were thus pointed out. Vasubandhu an swered: If I do not understand the Vyakarana, how can I ever understand the admirable truth of the Buddhism. Thereupon he composed a treatise utterly refuting the thirty two chapters of the Vyakarana. Thus the Vyakarana' was lost while the Abhidharmakosa survived. The king and queen-mother gave him some lacs of gold. Vasurata further tried to defeat him through the intervention of another scholar’. ( Journal of the Royal Asiatic Society, London, April, 1904, p. 45 ) .
Jain Education International
भर्तृहरि समय जिज्ञासुभिः ' मलवादी अने भर्तृहरिनो समय ' ( जैन सत्यप्रकाश, पु. १७, अंक २, November 1951, पृ०२६-३०, बुद्धिप्रकाश, पुस्तक ९८, अंक ११, November 1951 पृ०३३२ - ३३५ ) इत्यस्माकं
For Private & Personal Use Only
www.jainelibrary.org