________________
॥ ॐ ह्रीँ अहँ श्रीशङ्केश्वरपार्श्वनाथाय नमः॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीगुरुभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीगुरुभ्यो नमः। सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः ।
प्राक्कथनम्
___भगवतो गुरुदेवस्य प्रेरणा जैनशासनवादिप्रभावकाचार्यश्रीमल्लवादिक्षमाश्रमणविरचितस्य श्रीसिंहमूरिगणिवादिक्षमाश्रमणविरचितवृत्त्या समलङ्कृतस्य द्वादशारस्य नयनचक्रमहाशास्त्रस्यारचतुष्टयात्मकं प्रथमं विभागं विदुषां पुरतः प्रकटयन्तो वयमद्यापूर्वमानन्दमनुभवामः ।
विक्रमसंवत् २००१ वर्षे शहापुरग्रामे [ जिल्ला 'ठाणा' मध्ये ] वयं चतुर्मासी स्थितास्तदा कञ्चिदागमग्रन्थं सम्पादयितुमस्माकं मनसि विचारः प्रादुर्भूतः । तदानीं च अनेकप्राचीनग्रन्थसङ्ग्रहव्यवस्थापने सिद्धहस्तैः प्राचीन ग्रन्थसंशोधने चोत्कटं खारस्यं समुद्वहद्भिर्मुनिराजश्रीपुण्य विजयजीमहोदयैरद्यतनशैल्या सम्पाद्य जैनागमग्रन्थान् प्रकाशयितुं 'जैनागमप्रकाशिनी संसद्' इत्यभिधा एका संस्था पत्तननगरे स्थापिताऽऽसीत् । अतो मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तिसमेतस्य सैद्धान्तिकप्रवरश्रीजिनभद्रगणिक्षमाश्रमणविरचितविशेषावश्यकमहाभाष्यस्य दुर्लभत्वमुपयोगित्वं च विभाव्य भगवतां गुरुदेवानां पूज्यपादमुनिराजश्री१००८ भुवनविजयजीमहाराजानां प्रेरणया तत् सम्पादयितुं मुनिराजश्रीपुण्यविजयजीमहोदयेभ्योऽस्माभिरस्माकं समीहा निवेदिता । तैस्तु एवमुत्तरं लिखितम्
___ 'मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतस्य विशेषावश्यकमहाभाष्यत्य प्रकाशनं तावत् सकृत् सञ्जातमेव । नितान्तमावश्यकता तु नयचक्रप्रकाशनस्य वरीवर्ति । नयचक्रमद्यावधि अमुद्रितम् । किञ्च, मल्लवादिप्रणीतं नयचक्रं तावत् कुत्रचिदपि नैवोपलभ्यते। सिंहमूरिक्षमाश्रमणविरचिता तदीया वृत्तिरेवैका केवलमुपलभ्यते । हस्तलिखितप्रत्यनुसारेण नयचक्रवृत्तेः संशोधनं विधाय, तदनुसारेण नयचक्रमूलं च संकलय्य, अद्यतनशैल्या च साङ्गोपाङ्गं सम्यक् सम्पाद्य सवृत्तिकस्य नयचक्रस्य प्रकाशनं नितान्तमपेक्ष्यते सम्प्रति । यद्यप्येतत् कार्यमतिकठिनं तथापि सर्वथाऽऽवश्यकमुपयोगि चात्यन्तम् । यद्येतत् कार्यं युष्माभिः खीक्रियते तर्हि तत्सम्पादनार्थमुपयुक्तां सर्वां हस्तलिखितग्रन्थादिसामग्री प्रेषयामि। तस्य मुद्रणप्रकाशनादेः सर्वां व्यवस्थामहं विधास्ये । यदि चैतस्मिन् कर्मणि सहायकत्वेन कश्चित् पण्डितोऽपेक्ष्यते तर्हि तमपि प्रेषयिष्यामि।'
एवंविधया आग्रहपूर्णया तेषां सूचनया मया सत्वरमेवैतत् कार्य स्वीकृतं प्रत्युत्तरे चाऽऽवेदितं यथा 'पण्डितस्य नापेक्षा, नयचक्रवृत्तेर्हस्तलिखिताः प्रतय एव शीघ्रं प्रेषणीयाः' इति।
१ श्रीशंखेश्वरपार्श्वनाथतीर्थे विक्रम संवत् २०१५ वर्षे माघशुक्लाष्टम्यां सोमवासरे पूज्यपादानां भगवतां गुरुदेवानां मुनिराजश्रीभुवनविजयजीमहाराजानां वर्गवासः सञ्जातः, तेषां स्वर्गवासात् प्रागेव झींझुवाडाग्रामे तेषां छत्रच्छायायां लिखितं तेषां दृष्ट्या च पवित्रितमिदं प्राक्कथनं प्रायो यथावदेवात्र मुद्रयते ॥ इदं तु ध्येयम्-गुरुदेवानां वर्गवासात् प्रागेवास्य ग्रन्थस्य सप्त अरा मुद्रिताः [पृ० १-५५२]। तदनन्तरमष्टमोऽप्यरो मुद्रितः [५५३-७३७ ] इति तस्याप्युपयोगोऽस्मिन् प्राक्कथने टिप्पणेषु यथायोग विहितोऽस्माभिरिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org