Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
द्वात्रिंशिका
धर्मैः पार्थिवत्वपृथुबुध्नोदराद्याकारवत्त्वादिसत्तासूचकधर्मे र्जलाधारत्वादिकार्यसूचकधर्मैश्च घटः पटादिभ्यो विषमस्तेन पूर्वोक्ता धर्मा विशेषाऽपरपर्याया विषमताख्या आख्यायन्ते । एवं पटोऽपि तन्तुवेमाकुविन्दादिजन्यत्वादिहेतुसूचकधर्मैर्वनस्पतिकत्वतन्तुम
यत्वादिसत्तासूचकधर्मैः
शीतत्रायकत्वादिकार्यसूचकधर्मेश्च
घटादिभ्यो विषम इति तात्पर्यम् । किंभूतं विज्ञानं ? सङ्क्रान्तविश्वत्रयं, संक्रान्तं प्रतिबिम्बितं विषयीभूतं विश्वत्रयं जगत्त्रयी यत्र तत्तथा । अनेन ज्ञानातिशयो दर्शितः । च पुनः किंबिभ्राणं ? बाधवन्ध्यवचनं । बाधः - पूर्वापरविरोधस्तेन वन्ध्यं - शून्यं, परैरबाध्यं वा, तच्च तद्वचनं च बाधवन्ध्यवचनम् । किंलक्षणं ? विलसद्वचः प्रतिवचःस्याद्वादमुद्राङ्कितं, विलसन्ति-विनयाद्युपचारोपेतानि, चित्रकारिप्रमेयवाचकत्वेन श्रोतॄणां चित्ताह्लादकारीणि वा वचांसि प्रश्न रूपेण शिष्यवचनानि तेषामनुवादो वा, प्रतिवचांसि च प्रश्नितार्थनिर्वचनरूपाणि सिद्धान्तरूपेण
गुरुवचनानि, स्याद्वादश्चानेकान्तवादः स एव मुद्रा, ततो द्वन्द्वः, ताभिरङ्कितम् - चिन्हीकृतमलङ्कृतमित्यर्थः । तत्र चापेक्षिकी हि प्रवचने स्याद्वादमुद्रेतिवचनात् स्याद्वादापेक्षयाऽवगन्तव्यः, अपेक्षा चैवं एकस्मिन्नेव विवक्षितघटादिवस्तुनि स्वरूपापेक्षया सत्त्वं, पररूपापेक्षया चासत्त्वमित्यादि । तादृशार्थविबोधकवचनं तु स्यादुद्घटोऽस्त्येवेत्यादिरूपेण सकलादेशरूपमवसातव्यम्। तच्च युगपदनन्तधर्मात्मकवस्तुवाचकं । उक्तं च प्रमाणनयतत्त्वालोकालङकारे

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 168