Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________ 30 धर्म प्रमादमदिरामूढ इति प्रमाद एव मदिरा सुरा तया मूढो विगतकृत्याकृत्यविवेको, विचेता नष्टचित्तः, नष्टसतिर्नष्टसन्मार्गः, कः प्राणी पतितो नात्र संसारे ? व्यूढः प्रेरितो विषयवीचिभिः शब्दादिविषयकल्लोलैः ? अपितु सर्वोऽपीत्यर्थः. तथा नानायोनिसमाकीर्णेऽनेकजीवोत्पत्तिस्थानाकुले जीवः प्रा. णी कर्मनिष्पादितां त्रैलोक्यरंगे त्रिवनरंगजमौ, रंगश्च नर्तनस्थानं, नटवन्नट श्व धत्ते धारयत्यने करूपतां नानाप्रकाररूपतामिति. एतदेव व्यनक्ति, कचिन्नारकजावेनेत्यादिश्लोकास्त्रयः सुगमा एव. किंच संसारवर्तिनो जीवाः सर्वदा दुःखिता एवेति दर्शयन्नाह-प्रियाप्रयोजने केचिदित्यादिश्लोकास्त्रयः सुगमा एव. तथा शरीरेषु सारताबुद्धिं निरस्यन्नाह-शुक्रशोणितसंचूत इत्यादि, शुक्र पितुः संबंधिरेतः, शोणितं मातुः संबंधि रक्तं, तान्यां संभूते निष्पन्ने सप्तधातुमलाश्रये त्वग्रक्तमांसमेदास्थिमज्जाशुक्र लादणमलस्थाने त्वङ्मात्रावृते विमानाबादिते पुंसां पुरुषाणां काये शरीरे का ? न काचिदित्यर्थः, रमणीयता रम्यत्वमिति. तथा रमणीया रम्या रमणी कामिनी या यका निगद्यत उच्यते काममोहितमानसैस्तस्या अपि चारुत्वेनानिमताया अपि रमण्या निःसारं साररहितं पूति. मलगंधि कुत्सितमलयुक्तं. अयोपसंहरनाह-संसारासारता येषामित्यादिश्लोकास्त्रयः सुगमा एव. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404