Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कूटसाक्षिदण्डः। स च उत्कोचादिग्रहणनिमित्तः प्रकाशतस्करप्रकरणे प्रदर्शितः। लोभादिना कूटसाक्ष्ये दण्डमाह मनुःलोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वन्तु साहसम्। भयाद्दौ मध्यमौ दण्डौ मैयात् पुर्वं चतुर्गुणम् ॥ कामाद्दशगुणं पूर्व क्रोधात्तु चिगुणं परम् । अज्ञानाद्दे शते पूर्णे वालिश्याच्छतमेव च ॥ लोभोऽर्थलिमा सहस्रं पणानामिति शेषः, मोहो विपरीतज्ञानमिति कुल्लकभट्टादयः। रत्नाकरेऽपि मिथ्याज्ञानमित्युक्तम्। वैचित्यमिति कल्पतरुः । पूर्व साहसं साईं पणशतइयम् । दौ मध्यमौ साहसावित्यन्वयः, तेन पणसहस्रमित्यर्थः। चिगुणं परमिति पूर्वापेक्षया परं मध्यमं तस्मिंस्त्रिगुणे पञ्चदशशतानि सम्पद्यन्ते इति कल्पतरुः। एवमेव रत्नाकरः। ग्रहेश्वरमिश्रास्तु परं सहसमित्याहुः । नारायणसर्वज्ञोऽप्याह परमुत्तमसाहसमिति । अज्ञानं तात्कालिको विपर्यय इति कल्पतरुः । अस्फुरणमज्ञानमिति मिताक्षराकारः। अत एव वालिश्यं यौवनोन्मेषप्राप्तो मद इति रत्नाकरः। ज्ञानानुत्पादो वालिश्यमिति मिताक्षराकारः। यत्र तु लोभादिकारणविशेषपरिच्छेदो नास्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426