Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 385
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० दण्डविवेकः । अथ 'निर्णयोत्तरकृत्यम्। तत्र दिव्यैर्जे ये जयपराजयावधारणे कात्यायनः,__ शताई दापयेच्छुद्धमशुद्धौ दण्डभाग्भवेत् । तं दण्डमाह स एव,विषे तोये हुताशे च तुला-कोषे च तण्डुले । तप्तमाषककृत्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्रं षट्शतं हे च तथा पञ्चशतानि च । चतुस्विद्दयमेकञ्च होनं होनेषु कल्पयेत् ॥ निहूवे भावितो दद्यादित्याद्युक्तदण्डेनायं दिव्यनिवन्धनो दण्डः समुच्चीयते, इति मिताक्षराकारः। याज्ञवल्क्यः,निहूवे भावितो दद्यात् धनं राज्ञे च तत्समम् । मिथ्याभियोगौ द्विगुणमभियोगावनं हरेत् ॥ निहवे अपलापे भावितः प्रमाणेनाङ्गोकारितः । तत्समं विवादविषयसमम् । मिताक्षराकारःप्राङ्न्याय-प्रत्यवस्कन्दनयोरप्येवापह्नवकारौति प्रत्यर्थिना भावितः [प्रमाणेनाङ्गोकारितः प्रकृतधनसमं दण्डं राज्ञे दद्यात्। प्रत्यौँ यदि भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी ज्ञात इति प्रकृतधनमर्थिने दद्यात् राजे च तद्दिगुणं दण्डमेतच्च ऋणादानविषय एव पदान्तरेषु दण्डान्तराभिधानादधनव्यवहारेवस्यासम्भवाच्चेत्याह । १ क निर्ण योऽत्र न कृतं । २ क्वचित् पाठः--वहेत् । ३ क पुस्तके [ ] चिहितांशो नास्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426