Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
दण्डविवेकः ।
याज्ञवल्क्यौये दुर्दष्टानिति वाक्ये द्विगुणदण्डप्रतिपादके वादिनस्तदनगौकाराश्रवणात् सत्यजयिनस्तदसम्भवाच्च सपणश्चेत्यत्र दण्डश्च पणञ्चेति समुच्चयश्रुतिविरोधात् पणस्य प्रौढिप्रयुक्तत्वादन्यत्रापि सम्भवेन वाक्ययोर्विषयभेदस्यावश्यवाच्यत्वात्। __ यो यावन्निह्नवीतेत्यादिना पुनन्यायं विना विना च वादिप्रतिज्ञानं पराजितस्य द्विगुणदण्डप्रतिपादनाच्च ।
इदन्तु विचारमर्हति तौरितमित्यादौ किमपेक्षया द्वैगुण्यमिति।
तत्र केचित्– विवादपदाबैगुण्यन्तस्यैवोपस्थितत्वेन प्रतियोग्याकाङ्क्षापूरकत्वाच्च यो मन्येताजितोऽस्मीत्यादियाज्ञवल्क्यौयेनैकमूलकत्वाच्चेत्याहुः ।
तन्न- अपहूवादेरुभयत्र समानत्वेऽपि पराजितस्य धृष्टतया वा दुराशयतया वा प्राविवाकादिवचनमनाहत्य पुनर्विवदमानस्यापराधगौरवेण दण्डगौरवस्यौचित्यात् ।
तस्माद्यत्र प्राथमिको विवादस्तच तद्दिषय एव द्विगुणो दण्डः। यत्र तु पुनर्विवादस्तत्र विवादविषयद्विगुणादपि दिगण इति युक्तं तत्र तस्यैवोपस्थितत्वेन बोधितत्वात् ।
तथाहि
तौरितं साक्षिलेख्यादिना निर्गौतमनुद्धृतदण्डं दण्डपर्यन्ततान्नौतमिति यावदिति व्याचक्ष्यते।
अन्यथा द्विगुणदण्डास्थानवैयर्थात् विवादविषया
१ क--दण्डगौरववैचित्र्यात् ।।
For Private And Personal Use Only

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426